________________
248
श्रावकभूमौ नष्क्रम्यभूमिः
(मत्) प्रतीत्यसमुत्पादकौशल्यं [1] आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञान, विज्ञानप्रत्ययं नामरूपं । विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः । यत्पुर[4]र्धर्मा एव धर्मानभिष्पन्दयति (न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति । संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात् प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासध[5]र्माणः । ते जरा धमित्वाद्यावदुपायासमित्वात् । दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति ।' यदेभिराकारैः
(contd. from p. 247)
ppāda, NMRP, I.179-239; Poussin, Theorie des douze couses; Keith, Buddhist Philosophy, p. 99 sq.; Oldenberg, The Buddha (Hoeys trans., 1882), p. 223 sq.; Gokhale, Pratityasamutpādaśāśtra des ullangha
(1930). 1. cf. कतमे च, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा? जरामरणं, भिक्खवे, अनिच्च सङ्खतं
पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्म निरोधधम्म । जाति, भिक्खवे, अनिच्चा सङ्घता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। भवो. . . . उपादानं . . . 'तण्हा. . . 'वेदना' . ' 'फस्सो· · · 'सकायतनं . . . 'नामरूपं. ... . विआणं' · · सङ्खारा' · · 'अविज्जा... ' । इमे वुच्चन्ति, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा। S. N., II.24; cp. also, pp. 202-9; p. 277, etc.;
(contd. on p. 249)