________________
238
श्रावकभूमौ नष्क्रम्यभूमिः
तत्र रूपस्कन्धो' यत्किचिद्रूपं सर्वं तच्चत्वारि 98–2|| महाभूतानि । चत्वारि महाभूतान्युपादाय । ||[1] (contd. from p. 237)
वस्तूद्भावनतामुपादाय। सपरिग्रहदेहात्मवस्तु उपयोगात्मवस्तु अभिलाषात्मवस्तु सर्वधर्माभिसंस्कारात्मवस्तु चोपादाय (Asm., pp. 1-2), and कस्मात्स्कन्धा उपादानमित्युच्यन्ते । उपादानेन सहितत्वात् स्कन्धा उपादानमित्युच्यन्ते । उपादानं कतमत् । स्कन्धेषुच्छन्दो रागश्च । कस्माच्छन्दो रागश्चोपादानमित्युच्यते । अनागतवर्त्तमानस्कन्धानामभिनिवर्तनतोऽपरिहारतश्च । अनागतेऽभिलाषाद् वर्तमानेऽध्यवसानाच्च च्छन्दो रागश्चोपादानमित्युच्यते । (ibid, p. 2); see
Vsm., XIV.33; BDD, p. 315. 1. cp. Asm., p. 2 : किं लक्षणं रूपम् । रूपणलक्षणं रूपं । तद्विविधम् ।
स्पर्शेन रूपणं प्रदेशेन रूपणं च । स्पर्शेन रूपणं कतमत् । करचरणपाषाणशलदण्डशीतोष्णक्षुत्पिपासा मशकदंश सर्पवृश्चिकादीनां स्पर्शेन व्याबाधनम् । प्रदेशेन रूपणं कतमत् । देशेन रूपणमिदं चेदं च रूपमेवं चैवं च रूपमिति प्रणिहिताप्रणिहितचेतोवितर्केण प्रतिबिम्बचित्रीकारता ॥; cp. S. N., II, p. 312; SPVS, p. 1 : रूपधर्मः कतमः । तानि सर्वाणि चतुर्महाभूतजानि चत्वारिमहाभूतान्युपादाय समुत्पन्नानि रूपाणि; AK, I.19-ab रूपं पञ्चेन्द्रियाण्याः पञ्चाविज्ञप्तिरेव च ।; Abd., I.1.4; Aaa (pp. 296.4) distinguishes between the three main kinds of rūpa, viz. कल्पितं रूपं, विकल्पितं रूपं and धर्मतारूपं, तत्र रूपणालक्षणं रूपम् । . . 'तत्पुनस्त्रिविधं रूपम् । कल्पितं रूपं ग्राह्यग्राहकाकारेण कल्पितत्वात् । विकल्पितं रूपमसद्भूतपरिकल्पेन ज्ञानमेव तथा प्रतिभासते इति विकल्पितत्वात् । धर्मतारूपं तत्त्वतो रूपमेव शून्यतारूपेण परिनिष्पन्नत्वात् ।; Buddhaghosa classifies rāpa into भूतरूप (4) and उपादाय रूप (24) (Vm., XIV.34-6, see also paras 37-80 XI.93); Upatissa in his Vimuttimagga enumerates thirty kinds of rūpa, see, VVM, pp. 95-7, but see, PF, pp. 237-8 where only twentyeight kinds of rūpa have been enumerated; cp. also, PVV, p. 16. 10 : केनार्थेन तत् रूपमित्युच्यते। अनुक्रमश उपचीयते अनुक्रमशो विपरिणम्यत इति । . . . 'तथागत आह विपरिणामित्वात् रूपमिति । विपरिणामश्च रूपणार्थकः ।