________________
द्वितीयं योगस्थानम्
235
बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति । निवरणेभ्यो विशोधितं' (विमोचितं) [1] तेनाह [1] विमोचयच्चि (यंश्चि)त्तमाश्वसन् । विमोचयश्चित्तमाश्वसिमीति शिक्षते ।
तस्य निवर[3] गेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया[अ]वशिष्टा भवन्ति । प्रहातव्याः [1] स तेषां प्रहाणाय मार्ग संमुखीकरोति यदुत संस्कार[7] नित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते । तेनाह । अनित्यानुदर्शी। तेन च पूर्व प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः[1] ऋजु [4] एतर्हि अनित्यानुशि (र्शी) विपश्यनायां योगं करोत्येवं अस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते । यदुतानुशयेभ्यः ।
कतमे धातवः' [1] यश्च प्रहाणधातुर्यश्च
1. Vide, supra, folio 9-A-1, lines 6-8. 2. MS. omits this. 3. cp. A. N., IV.183-5; त्रयः साकल्येन धातवः । प्रहाणधातुः वैराग्यधातुः निरोधधातुः । जहाति रागसंयोजनं सर्वानन्यक्लेशानिति प्रहाणधातुः । रागसंयोजनप्रहाणमुच्यते वैराग्यधातुः । सर्वान्यधर्मप्रहाणं नाम निरोधधातुः। Ada., p. 129; cp. AK with AKB, VI.78, 80; BDD, p. 296%; Adv., p. 370 :
विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः । आख्याता धातवः सूत्रे द्विधा भेदो ह्यपेक्षया ।। (Vs. 470)
(contd. on p. 236)