SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 228 श्रावकभूमौ नष्क्रम्यभूमिः स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः। अनित्या एत इत्यवतरति । अनित्यत्वादभूत्वा[च' प्रति]विगच्छन्ति । पुनरेते अभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । ते जाति [2] धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः। ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः [1] एवं सोनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति । या काचिदेषा[]संस्काराणामभिनिर्वृत्तिः । दुःखभूता, रोगभूता, गण्डभूता, · सर्वासौ तृष्णाप्रत्यया (:)। य[3]त्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति । एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति । अयमुच्यते सत्यावतारपरिचयः [1] ___ तस्यैवं सत्येषु कृतपरिचयस्य । [4]दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति । येषां प्रहाणाय षोडशाकारपरिचयं करोति । 1. Letters damaged by pin-hold, restored by us. 2. See also infra, Yogasthāna, III; DBS, pp. 32-4; S. N., ___II.24; MKV(V), pp. 104-5; 240-1; LV, XIII. 100 sq.; SRS, IX, pp. 45-53, pp. 190-2.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy