________________
द्वितीयं योगस्थानम्
.
195
विचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते। अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति । अपि तु नवाकारया चित्त[5] स्थित्या अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । [व्युपशमयति'] । एकोतीकरोति । समाधत्ते [1] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बं आलम्बनं भवति । यत्रासावेकांशेनकायां स्मृतिमवस्थापयति (1) तदालम्बनं, नो तु विचिनोति। परिवितर्कयति । परिसीमान्सा (मांसा)मापद्यते। तच्च प्रतिबिम्ब प्रतिबिम्ब [6]मित्युच्यते । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि । ___ वस्तुपपन्नता (वस्तुपर्यन्तता') कतमा। यदालम्बनस्य यद्भाविकता यथावद्भाविकता । यथावद्भाविकता च ।
तत्र यावद्भाविकता कतमा । यस्मात्परेण रूप
1. Letters damaged by pin-hold. 2. Asm., p. 80 : निर्विकल्पप्रतिबिम्बालम्बनं कतमत् । तत्त्वमनरकारेण यत्
शमथविपश्यनाविषयालम्बनम् । 3. Asanga uses वस्तुपरीत्तता on p. 193 and वस्तुपर्यन्तता in
Asm., p. 80. 4. Asm., ibid : वस्तुपर्यन्तालम्बनं कतमत् । सर्वधर्माणां क्षयभाविकता यथा
वद्भाविकता च। क्षयभाविकता. . . स्कन्धधात्वायतनानि । यथावद्भाविकता. . . चत्वार्यार्यसत्यानि षोडशाकाराः तथता सर्वे अनित्याः संस्काराः सर्वे दुःखाः संस्काराः सर्वेऽनात्मानो धर्माः निर्वाणं शान्तं शून्यमप्रणिहितमनिमित्तं च ॥