________________
194
श्रावकभूमौ नष्क्रम्यभूमिः
इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्खा' । स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । अधोभूमीनामौदारिकत्वं । उप[2] रिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते । ज्ञेयम्वस्तु।
तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र (श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते । तदेवं ज्ञेयम्वस्तुनि (स्त्वधि) मुच्यते। स तस्मिन् समये प्रत्यक्षानुभाविक इतिवा [धि] मोक्षः प्रवर्तते । ज्ञेयं[3]वस्तुनि (स्त्विति) च। तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति । समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः। स तादृशा (शो) मनस्कारानुभव: समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुन: अनुसदृशं तद् भवति (1) प्रतिभासं, येन तदुच्यते । ज्ञेयवस्तुभावं (-सभाग) प्रतिबिम्बिमिति । यदयं (दिम) योग[ ] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये व[4]स्तुनि परीक्ष्य गुणदोषावधारणं करोति । इदमुच्यते सविकल्पं प्रतिबिम्बं [1]
निर्विकल्पं (1) प्रतिबिम्ब कतमत् । इहायं योगी
प्रतिबिम्बानिमित्तमुद्गृह्य न पुनः विचिनोति । प्रति1. See Bodhi., p. 78, para 1.