________________
178
श्रावकभूमौ नष्क्रम्यभूमिः
संबाध्य, संसृत्य दुःखस्यान्तं करोति । उभावपि स्रोत आपन्नौ पुद्गलौ वेदितव्यौ ।
तत्रैकवीचिकः पुद्गलः कतमः। यस्य सकृदागामिनः [5]पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशा: प्रहीणा भवन्ति । मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति । सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्वाति । स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः ॥
अन्तरापरिनिर्वायो पुद्गलः कतमः । आह । 1. एकवीचिकः कतमः । सकृदागामी देवेष्वेव यो देवेष्वेव दुःखस्यान्तमनुप्राप्नोति ।
ibid, p. 90. 2. अन्तरापरिनिर्वायो कतमः । उपपत्तिसंयोजने प्रहीणे अभिनिवृत्तिसंयोजने अंग्रहीणे
अन्तराभवमभिनिवर्तयन्नेव यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति अभिनिर्वृत्तो वा अन्तराभवे उपपत्तिभवगमनाय चेतयन्नेव यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । अभिसंचेतयित्वा उपपत्तिभवमभिप्रस्थितः भवानुपपत्तिच्छन्दं यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । Asm., p. 90; cp. Adv., p. 341; AK. VI.38, AKV, p. 561 sq.; for the three kinds of antarāparinirvāyin, a kind of the anāgāmin pudgala, see AKV, p. 563; AK. VI.40; Yasomitra remarks (AKV, III.12, p. 24) : देवानामन्तिक देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति सोऽन्तरापरिनिर्वायी । स पुनर्धातुगतो वा परिनिर्वाति यः क्लेशबीजावस्थायामुपपन्नमात्रः असमुदाचारक्लेश इत्यर्थः । संज्ञागतो विषयसंज्ञासमुदाचारावस्थायां यः परिनिर्वाति । अयमपि संज्ञागताच्चिरतरेण परिनिर्वाति । तेन त्रिविधो भवत्यन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण । प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्यर्थः । यं प्रत्येष परीत्तः शकलिकाग्निरिति दृष्टान्तः । द्वितीयो देवसमृद्धि चानुभूय
(contd. on p. 179)