________________
160.
श्रावकभूमौ नष्क्रम्यभूमिः
कल्पयति । [वृक्ष']मूलं निश्रित्य [1]एवं वृक्षमूलिको भवति ।
कथमाभ्यवकाशिको भवति। अभ्यवकाशे वासं कल्पयति । अनवक[T]शे विवृते द (दे) शे [1] एवमाभ्यवकाशिको भवति । ___ कथं श्माशानिको भवति । श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः। अभिनिहियत एवं श्माशानिको भवति ॥
कथं नैषधिको भवति। मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति । नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं') वृक्षमूलम्वा, तृणसंस्तरम्वा, पर्णसंस्तरम्वा, निश्रित्य • पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्ये[5]वं नैषधिको
भवति । ___ कथं याथासंस्तरिको भवति। यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरम्वा, पर्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति । तथैव शय्यां कल्पयति । नो तु पुनर्विकोपयति । अभि
संस्करोति चैवं य (या)थासंस्तरिको भवति । 7B–7|| केनैते धुतगुणा उच्यन्ते तद्यथा ऊ/[1]र्णा वा,
कर्पासं वा, धुतं भवत्यसंवृत्तमिति । त[च्च त]स्मिन्
1. Added by a separate hand in a footnote, letters dim. 2. A repetition, may be deleted.