________________
नष्क्रम्यभूमिः
___159
प[रि']भोक्तुं । एवं खलु पश्चाद्भक्तिको भवति ।
कथं वैचीवरिको भवति। त्रिभिश्च चींवरैर्यापयति, सं(7) घाटिना वा, उत्तरासंगेन, अंतर्वासेन च । त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं वै[चीव]रिको भवति ।।
कथं नामतिको भवति ॥ यत्किचिच्ची[2]वरं धारयति । त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व तदौणिकं धारयति । न त्वन्यं (न्यत्) [1] एवं नामतिकं धारयति ॥
कथं पान्सु (पांसु) कूलिको भवति । यच्चीवरं परैर्मुक्तं भवति । उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, शृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूय[3]रुधिरखेटाप्रक्षितं वा[i] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्णीकृत्य धारयत्येवं पान्सु (पांसु) कूलिको भवति ।
• कथमारण्यको भवति। अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति । यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति ।।
कथं वृक्षमूलिको भवति । वृक्ष[4]मूले वासं
1. Letter damaged by pin-hold. 2. Photo indistinct and illegible, letters damaged by
pin-hold.