________________
148
श्रावकभूमौ नष्क्रम्यभूमिः
तीर्णब्रह्मचर्याः, तान्न कालेन कालं परिपृच्छति । परिप्रश्नीकरोति । ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति । विवृतानि च स्थानानि विवृण्वन्ति । न च गम्भीरमर्थपदं । साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये । एवम[5]स्य स आत्मसंग्रहः।।
आन्तरायिको भवति । यदुत विपश्यनाया: [1] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति । स तेन ज्ञानमात्रकेण । दर्शनमात्रकेणात्मानमुत्कर्षयति । संप्रगृह्णाति । स आत्मानं संप्रगृह्णस्तावता संतुष्टो[6]भवति नोत्तरि व्यायच्छते । एवमस्यान्तरायः कृतो भवति । आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया) [1] चपलो वा पुन: अनुपशान्तेन्द्रियो भवति। उद्धतेन्द्रियः, उन्नतेन्द्रियः। स दूषितचित्ती भवति । सुभाषितभाषी,
दुष्कृतकर्मकारी, न स्थिरं धर्माश्चिन्तयति । न दृढं 7A-5// चिन्तयति । येन विप//[1] श्यनां न पूरयति न विशोध
यत्येवमस्य चापल्यं । अन्तरायो भवति । यदुत विपश्यनाया इति ।
द्वौ धौ शमथान्तरायौ। यदुत प्रमादः, आदेशवासश्च [1] द्वौ धौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च । इति यश्च शमथान्तरायः । यश्च विपश्यनान्तरायः । अयमुच्यते