________________
144
श्रावकभूमौ नैष्क्रम्यभूमिः
अनन्तरायः कतमः [1] अनन्तरायो द्विविधः । अध्यात्ममुपादाय बहिर्धा च [1] तत्राध्यात्म बहिर्धा चोपादायान्तराय (यं)वक्ष्यति । तद्विपर्ययेण[1] नन्तरायो वेदितव्यः ।
अध्यात्ममुपादायान्तरायः कतमः । यथापीहैकत्यः पूर्वमेव कृतपुण्यो भवति । सौकृतत्वात् पुण्यानां[4]च लाभी भवति । कालेन कालमानुलोमिका (कानां, केषु)जीवितपरिष्काराणां (रेषु) । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु)तीव्ररागो भवत्यायत (न') रागः । तीव्रद्वेषः आयत (न')द्वेषः । तीव्रमोह आयत (न') मोहः । पूर्वं वानेना[s]बाधसंवर्तनीयानि कर्माणि कृतानि भवन्ति । यद्धेतोराबाध[5]बहुलो भवति । दृष्ट एव धर्मे विषमचारी भवति । यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा कार्य सन्तिष्ठते । भोजनगुरुको भवति। बह वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति । कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः । आत्मसंप्रमा[6]हकश्चपलः, प्रमत्तः कुदेशवासी वा। इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः ।
बहिर्थोपादायान्तरायाः कतमे [1] तथापि तदसत्पुरुषापाश्रयः । यतो न लभते कालेन कालमानु
1. This may be omitted.