________________
नष्क्रम्यभूमिः -
141
वेदना वेदनास्कन्धः । षट् संज्ञाकायाः संज्ञास्कन्धः । षट् चेतनाकाया: चेतनास्कन्धः । षड् विज्ञानकाया विज्ञानस्कन्ध' इत्येवं गणनासंख्याकारां स्कन्ध [गणना] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना[2]कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः ।
कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धवेशनां चिन्तयति। चतसृभिर्युक्तिभिरुपपरीक्षते।' कतमा. भिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उप
पत्तिसाधनयुक्त्या । धर्मतायुक्त्या ॥ ___अपेक्षायुक्तिः कतमा। द्विविधा अपेक्षा उत्पत्यपेक्षा[3]प्रज्ञप्त्यपेक्षा च । तत्रोत्पत्त्यपेक्षा हेतुप्रत्ययः स्कन्धानां प्रादुर्भावो भवति । तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते । यर्नामकायपदकायव्यंजनकार्यः स्कन्धानां प्रज्ञप्तिर्भवति । तस्यां स्कन्धप्रज्ञप्ती ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते । इयमुच्यते स्कन्धेषुत्पत्त्यपेक्षा। प्र[4]जप्त्यपेक्षता (क्षा) च । या
चोत्पत्त्यपेक्षा। या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग 1. cf. Ada, p. 53. 2. ibid, p. 54. 3. cp. तत्र धर्ममीमांसाकामेन कतिभिर्युक्तिभिर्विचार्यते। चतसृभिर्युक्तिभिः ।
अपेक्षायुक्तिः कार्यकारणयुक्तिः उपपत्तिसाधनयुक्ति: धर्मतायुक्तिश्च ॥, Asm., p. 81. 4. cp., ibid, loc.cit., अपेक्षायुक्तिः कतमा । या संस्काराणामुत्पत्ती प्रत्यमापेक्षा ।