________________
110
श्रावकभूमौ नैष्क्रम्यभूमिः
पुनराह । बहिविहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वन शय्यां कल्पयति । पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातं । यदुत कालेन शय्यां कल्पयति । [8] नाकालेन । यत्पुनराह । आलोकसंज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्खन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातं । यदुत असंक्लिष्टचित्तो
मिद्धमवक्रामयति (क्रमते)। न संक्लिष्टचित्त 6B-5// इति । यत् पुनराह। || [1] राज्या:
पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थ सम्यक्करणीयमाख्यातं । यदुत कालेन प्रतिविबुध्यति । नोत्थानकालमतिवर्तते। इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि[कुर्व']न् शय्यां कल्पयतीति । अतो द्ववाभ्यां कारणाभ्यां असंक्लि[2]ष्टचित्तो मिद्धमवक्रामयति । यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुन: कारणाभ्यां कालेन प्रतिविबुध्यते । नो तु कालमतिवर्तते । यदुतालोकसंज्ञया, उत्थानसंज्ञया च । कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति । संप्रजन्येन, तस्मात् कुशलादा
1. Letters damaged by pin-hold. 2. Wayman (ibid, p. 73) emends it as असंक्लिष्टचित्तम् but I
think, no emendation is required here. .