________________
नष्क्रम्यभूमिः
109
पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकोसीये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्ववद्वेदितव्याः (व्या) । अयं तावत्पूर्वरात्रापरंरात्र जागरिकानुयोगस्य विस्तरविभागः ।
समासार्थाः पु[5]न: कतमे । इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति । कतमानि चत्वारि । यावज्जाग्रति (गति)तावत्कुशलपक्षं न रिचति । सातत्येनै [क']पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति । नाकालेन । सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति । न संक्लिष्टचित्त: [1] कालेन च प्रति[6] विबुध्यते (ति) । नोत्थानकालमतिवर्तते । इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः । ___ कथं च पुनर्देशितः । यत्तावदाह [1] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । एवं राज्या: प्रथमयाममि (इ)त्यनेन तावत् प्रथमं सम्यक्क[7] रणीयमाख्यातं । यदुत यावज्जाप्रति (गति)तावत् कुशलपक्षं न रिचति ।
सातत्यनै [क] पक्ष्यकुशलधर्मभावनायां । यस्मात् 1. MS. omits this. 2. Letter damaged by pin-hold.