SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ नष्क्रम्यभूमिः 95 विषमभोजनेन गुरुक: कायो भवत्यकर्मण्यः, अप्रहाणक्षमो विस्तरेण पूर्ववत् । तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति । नवाञ्च नोत्पादयिष्यत्ये[3]वमस्य यात्रा भवति । बलं च, सुखं च, असंक्लिष्टभोजनेन। समभोजनेन अनवद्यता च भवति । स्पर्शविहारता च । तत्रात्यल्पभोजनं येन जीवति । अतिप्रभूतभोजनं । येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति । न च कालेन भ(भु)क्तम्परिणमति । तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते । [4]अन्यतमान्यतमो वा काये कायिक आबाधः (।) समुत्पद्यते । यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [1] तत्रायमपथ्यभोजने विशेषः [1] दोषः प्रचयं गच्छति । खरं वा[ss]बाधं स्पृशति । तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते । सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्ववत् । इति यः समभोजनं च परिभुंक्ते । [5] विषमभोजनं च परिवर्जयति । तस्माद् भोजने समकारीत्युच्यते । भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता । यदुत प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् ।
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy