SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रावकभूमौ नैष्क्रम्यभूमिः यदाह । प्रतिसंख्यायाहारमाहरति । कथं कामसुखल्लिकान्तविजितं । यदाह। न द्रवार्थं, न मदार्थ, न मण्डना[6] थं, न विभूषणार्थमिति । कथमात्मक्लमथान्तविजितं । यदाह [] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि । नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च सुखं चेति । ___ कथं बह्मचर्यानुग्रहाय परिभुंक्ते। यदाह । ब्रह्मचर्यानुग्रहाय । अनवद्यता च । स्पर्श विहारता च मे भविष्यतीति । 6A-2|| पुनरपरः [[1]समासार्थः [1] द्वयमिदं भोजनं, चाभोजनं च। तत्राभोजनं यत् सर्वेण सर्वं सर्वथा किंचिन्न परिभुक्ते । अभुंजानश्च म्रियते । तत्र भोजनं द्विविधं । समभोजनं, विषमभोजनं च। तत्र समभोजनं । यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टं । तत्र विषमभोजनं । यद्य (द)त्यल्पमतिप्रभूतं च । अपरिणते (तं) वा, अपथ्यं वा, [2] संक्लिष्टं वा परिभुंक्ते । तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (।) नोत्पादयति । उत्पन्न प्रजहाति । तत्र नातिप्रभूतभोजने (न') [सम]1. Wayman suggests (ibid, p. 148) this to be deleted, but the context does not permit. 2. This should be deleted or emended as असमेन.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy