________________
78
श्रावभूमौ नैष्क्रम्यभूमिः
विपरिणामाच्च य आदीनवो यदुत आहारे ।
तत्र कतमः पर्येषणान्न (त्व) आदीनव आहारे । पर्येषणान्वय आदीनवो [ अ ] नेकविध [ : ] - समुदाननाकृतः । आरक्षाकृतः । स्नेहपरिभ्रंशकृतः । अतृप्ति5B-7 // कृतः । अस्वातन्त्र्यकृत: //[1] दुश्चरितकृतश्च । तत्र कतम आदीनव आहारे [1] समुदानना - कृतः [1] यथापीहैकत्यः आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते । कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन
वा,
लिपिगणनाव्यसनसंख्या
मुद्रा [ अनेकविधेन
शिल्पस्थानकर्मस्थानेनाप्रति
लब्धस्य वा][ss] हारस्य प्रति [2] लभ्भाय, उपचयाय वा [1] यथा आहारस्ये ( स्यै ) वमाहारनिदानस्य [1] तस्यैवमुत्सहतो, घटत (तो),
व्यायच्छत ( : ), स चेत्ते कर्मान्ता विपद्यन्ते । स तं निदानं ( तन्निदानं ) शोचति क्लाम्यति, परिदेवते । उरस्ताडयति । क्रन्दति – संगो वा [ मा]मापद्यते । मोहोबत मे स्वायासो अ तिफल इति । अयमु (यं समु) दानना सहगतः आदीनवो यदुत आहारे [1]
स चेत्पद्यते [3] स तस्यारक्षाधिकरणहेतोस्तीव्र
मापद्यते । कच्चिन्मे भोगा राज्ञा वा अपह्नियेरंश्चोरंब्व अग्निना वा दह्येरनुदकेन वा उद्येयुः । कुनिह (हि) ता वा निधयः प्रणश्येयुः,