________________
नष्क्रम्यभूमिः
75
दीनवदर्शनेन विदूषयित्वा (विदूष्या )भ्यवहरति ॥
तत्पुनरादीनवदर्शनं कतमत् । यदुत यस्यैव कबडंकारस्य परिभोगान्वयो वा, विपरि[4]णामान्वयो वा, पर्येषणान्वयो वा।
परिभोगान्वय आदीनवः (कतमः') [1] यथापीहैकत्यो यस्मिन् समये आहारमाहरति वर्णसम्पन्नमपि, गन्धसम्पन्नमपि, रससम्पन्नमपि, सुप्रणीतमपि [1] तस्य कबडंकार आहारः समनन्तरक्षिप्त एव आस्ये यदा दन्तयन्त्रचूर्णितश्च, लालाविसरविक्लिन्नश्च भवति । लालापरिवेष्टितश्च भवति। [5]स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति । स यासौ पूविका, पुराणा मनापता (न आपता) तां सर्वेण सर्वं विजहाति । परां च विकृतिमापद्यते । यस्यां च विकृतौ
1. cp. As, V. 136, p. 318 : पटिसङ्खा योनिसो आहारं आहारेतीति पटि
संखानपञआय जानित्वा उपायेन आहारं परिभुञ्जति ।' . . 'उपायं दस्सेतुं नेव दवाया ति आदि वुत्तं।..; cp. सत्त्वस्थितिवृद्धिहेतव आहाराश्चतुर्विधाः । आहाराश्चत्वारः कतमे। कबलीकार आहारः प्रथमः । स्पर्शाहारो द्वितीयः । मनः संचेतनिकाहारस्तृतीयः । विज्ञानाहारश्चतुर्थः ।।
___ कबलीकाराहारस्य त्रिषु गन्धरसस्पर्शायतनेषु संग्रहः । कस्माद्रूपायतने न संग्रहः यस्माच्चक्षुर्दर्शनाहारेण सत्त्वनिकायस्य महाभूतानां नोपचयस्तस्मात् ।। कबलीकाराहारो द्विविधः । खरो मृदुश्च । कतमः खरः । सर्वो हि भक्तापूपादिः । कतमो मृदुः । पेयं सुरभिकायानुविलेपनादि । कतमः । स्पर्शाहारः । सास्रवमनः स्पर्शाहारश्च । (त इमे) सन्तानानुच्छेदेन परेऽपि लोके प्रवर्तन्ते ॥ Ada,
p. 40; see also p. 41. 2. A separate hand adds this in a footnote; Wayman
reads तत्र कतमः परिभोगान्वय आदीनवः.