SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ नष्क्रम्यभूमिः 69 शृणोति । सन्त्येवंरूपाण्येवं रूपाणि चक्षुर्विज्ञेयानि रूपाणीति यानि तानि तदनुगतानि नामानि पदानि व्यंजनानि यान्य']धिपतिं कृत्वा, यानि निश्रित्य प्रतिष्ठायायं पुरुषपुद्गलः [2]यथाश्रुतानि चक्षुविज्ञेयानि रूपाणि विकल्पयत्ययमुच्यते । अनुव्यंजनग्राहः [1] यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यः । स पुनरयं निमित्तग्राहो[अ]नुव्यंजनग्राहश्च अस्ति यग्निदानमस्य · यदधिकरणं यदधिपतेयं अस्य पापका अकुशला धर्माश्चित्तमनु[3] स्रवन्ति । अस्ति यच्च तन्निदानं च तदधिकरणं च तदधिपतेयं पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तत्र , यो[अ]यं निमित्तग्राहो [अ]नुव्यंजनग्राह[7]अयोनिश[7]ग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तद्रूपमसौ निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयति[4] । __पापका अकुशला धर्माः कतमे [1] रागः, राग समुत्थापितं कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । द्वेषो, मोहः [1], मोहसमुत्थापितं च कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितमिम उच्यन्ते पापका अकुशला धर्माः । 1. Letters lost by pin-hold. 2. cf. Vbh., pp. 207, 210, 211, 217; see, pp. 440-1; (contd. on p. 70)
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy