________________
66
श्रावभूमी नेक्रम्यभूमिः
स्मृतौ बलाधानप्राप्तो भवति । येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय ।
कथं स्मृत्या [ss] रक्षितमानसो भवति । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते । चक्षुर्वि [ ज्ञानं, च']क्षुविज्ञानानन्तरमुत्पद्यते । विकल्पकं मनोविज्ञानं येन [2] विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु संरज्यते । अप्रियरूपेषु रूपेषु व्यापद्यते [1] स भा - ( ता ) मेवाधिपतिं कृत्वा तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात्तस्मात् संरक्षति । यथा संक्लेशो नोत्पद्यते । एवं श्रोत्रं घ्राणं जिहवां कायं मनः प्रतीत्य धर्मांश्चोत्पद्यते मनो [ 3 ] विज्ञानं । तच्च मनोविज्ञानमस्यायोनिश[] विकल्पसहगतं संक्लेशसमुत्थापकं । येन प्रियरूपेषु धर्मेषु संरज्यते । अप्रियरूपेषु धर्मेषु व्यापद्यते । स तस्मादयोनिशोविकल्पात् संक्लेशसमुत्थापकात्तन्मानसं रक्षत्येवमस्य संक्लेशो नोत्पद्यते । एवं स्मृत्यारक्षितमानसो [4]भवति ।।
कथं समावस्था वचारको भवति । समावस्थोच्यते । उपेक्षा कुशला वा, अव्याकृता वा [] स तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात् तन्मानसं रक्षित्वा कुशलायाम्वा उपेक्षायामव्याकृतायाम्वा अवचारयति । 1. Letters lost by pin-hold.