________________
३३८
क्षीरतरङ्गियां स्मरणाच्च ॥ स्वतर्कानुमितोऽत्र णित् क्वचित्स्मृते क्वचित्स्वतर्केणात्मोत्प्रे (प्रेक्ष्य) राणिज (?) नुमितः उल्लिङ्गितः अनुमत इष्टो वा ॥ समर्थनात्वागमयेति वृत्तिजां समेत्य वृद्ध [:] समुदाहरेदपि ।। किञ्च निजो भावाभावत्यर्थो वृत्तिकारायुक्तां समर्थनां युक्तार्थाना प्रगमयेत् । अभियुक्तोऽधिगच्छेत् तथेदानींतनैर्वृद्धैरपि सह समुदाहरेत् लक्ष्ये दर्शयेदन्यच्च ॥
समीक्ष्य लक्ष्यं क्वचिदत्र हेतुमद् विचारणादिषु नामदर्शनात् ।। णिजं भजेत् क्वचिल्लक्ष्यदर्शनाद्धेतुमद्विचारणार्थादिषु प्रयोजनकादिव्यापा[ र] विशेषेषु नामतो णिचमुत्पादयेत् नामत एवेति निपातोऽनुपसर्गादिभ्योऽतिवृत्तिकृता संगमयतेरनियमात् नामत एव णिज्भावे . तु तथैव पुच्छादिषु चोत्तरेषु णित् पुनर्धमत्य एव तथा पुच्छादिभ्य उत्तरेभ्य एव णिच् ॥ इति शुभम् ॥ श्रीरामचन्द्राय नमः॥ .
कश्मी (र) मण्डलभुवं जयसिंहनाम्नि विश्वम्भरापरिवृढे दृढदीर्घदोष्णि । शासत्यमात्यवरसूनुरिमं लिलेख भक्त्या स्वयं द्रविणनानपि धातुवृत्तिम् ॥ पदार्थजनकात् क्षीरस्वामिनः क्षीरधेश्वि ।
वृत्तिः प्रसूता रम्येमं (यं) नाम्ना क्षीरतरङ्गिणी॥ ॥ शुभम् ॥ पुल्लिङ्गेनार्थनिर्वचनं येषां ते उदात्तेतः ॥ परस्मैपदिनः ॥ स्त्रीलिङ्गेनार्थनिर्वचनं येषां ते अनुदात्तेतः॥ आत्मनेपदिनः।। ॥ स्त्री॥ नपुंसकलिङ्गेनार्थनिर्वचनं येषां ते स्वरितेतः ॥ उभयपदिनः ॥ नपु॥ येषां प्रथममर्थः पश्चाद्धातुः ते अनुदात्ताः । अनिटः । येषां पूर्वं धातुः पश्चादार्थः ते उदात्ता सेटः । अदन्ताश्चुरादिगणपठिता कथादयः ।।