________________
तनादिगण: ( ८ )
२७५
1
७६) न तङ – अनुकरोति, पराकरोति । गन्धनादौ ( द्र० १।३।३२ ) तङ – श्येनो वर्तिकामपकुरुते' । श्रधेः प्रसहने (१।३।३३ ) - तं हाधिचक्रे । वेः शब्दकर्मणः (१।३।३४ ) - श्वा विकुरुते स्वरम् । कर्मकाच्च ( १।३।३५ ) - विकुर्वते दान्ताः । संपर्युपेभ्यः करोतौ भूषणे, समवाये च (तु० ६।१।१३७, १३८ ) – सुट् संस्कुरुते, परिष्कुरुते, उप- ५ स्कुरुते । नित्यं करोतेः (६।४।१०८) इति म्वोर्विकरणलोपः - कुर्वः कुर्मः । कृसृभृवृ (७।२।१३) इति लिटि नेट् - चकर्थ, चक्रव, चक्रम । ऋद्धनो: स्ये (७/२/७०) इट् - करिष्यति । ये च ( ७ । ४ । १०६) इति विकरणलोपः- कुर्यात्, न भकुछु राम ( ८।२।७६ ) इति दीर्घो नास्ति । हृक्रोरन्यतरस्याम् (१।४।५३ ) कर्मसंज्ञा - घटं कारयति चैत्रं चैत्रेण १० वा । तिरोऽन्त, विभाषा कृत्रि ( १।३।७१,७२) गतिसंज्ञा, तिरसः ( द्र० ८।३।४२) गतौ सत्वम् - तिरस्कृत्य तिरः कृत्वा । कृभ्वस्तियोगे ( ५२४|५० ) च्चि: - शुक्लीकरोति । मिथ्योपपदात्, कृञोऽभ्यासे (१।३।७१) तङ – पदं मिथ्या कारयते । कृत्रिमम् ( द्र० ३।३।८८ ) । विभाषा कृवृषोः ( ३।१।१२० ) इति क्यप्, कार्यम् । श्रतः कृकमि १५ (८।३।४६) इति सत्वम् - श्रयस्कारः । कृञो हेतुताच्छील्यानुलोम्येषु
1
-
१७९) । तस्माद् भाष्यकृन्मते कृव्ग्रहणं व्यर्थमेव । जैनेन्द्र महावृत्तिकृता तूक्तम्–'तनादिभ्यस्तथासो: ( जै० १|४|४८ ) इति विभाषया सेरुम्न (सिचो लुङ न ) भवति । प्रकृत, प्रकृथाः । न चानुप्पक्षे ( सिचो लुगभावपक्षे ) 'प्राद् गौ:' ( जे० ५।३।४५ ) – (ह्वस्वादङ्गात् प्रष्टा० ८११२७ ) इति खं ( लोपः ) सम्भति । तस्मिन् प्राप्ते उप ( सिचो लुकः ) प्रारम्भात् सेः श्रवणं प्रसज्येत इति । इदं चाविचारितरमणीयम् । जैनेन्द्रव्याकरणानुसारमपि 'प्राद् गोः’ (जै० ५।३।४५ ) इत्यस्य ' पूर्वत्रासिद्धम्' (जै० ५।३।२७ ) इति प्रकरणे विधा - नात् । तेन प्राद्गोरिति वा हस्वादङ्गात् इति वा सिचः सकारलोपस्यासिद्धत्वात् नहि तत्प्राप्तो विभाषा सिचो लोप आरभ्यते, येन पक्षे सकारश्रवणं प्रसज्येत । अत एव महाभाष्यकृता इदमपि वैशिष्ट्यं निराकृतम् । वयं त्वनुमिनुमः - कृत्रो भ्वादावेव पाणिनीयः पाठः, न तनादौ । तथा सत्येव 'तनादिकृञ्भ्य उ:' ( ३।१।७९) सूत्रे पृथक् कृञो प्रहणमुपपद्यते । भाष्यव्याख्यानादनुमीयते भगवतः पतञ्जलेः प्रागेव कृञः तनादौ प्रक्षेपोऽभूदिति । अत्र कृञ् करणे (१। ६३९) सूत्रस्य टिप्पणम् (पृष्ठ १३८, टि० ४) प्रप्यवलोकनीयम् । १. 'अपस्कुरुते' पाठा० । २. क्वचित् ' स्वरम्' नास्ति ।
.
상품
२५