________________
॥ अथ तुदादिगणः ॥
५
१. तुद व्यथने । इतः कृषान्ता: ( ६।६ ) षडनिट उभयपदिनश्च । तुदादिभ्यः श: ( ३|१|७७), सार्वधातुकमपित् (१।२।४ ) इति ङित्त्वम् - तुदति तुदते । तोत्ता । प्रतोदः, तोदः । श्राच्छीन द्योनुम् ( ७|१| ८०) वा - तुदती, तुदन्ती । विध्वरुषोस्तुदः ( ३।२।३५) खश् - विधुतुदः श्ररुन्तुदः । वातशुनीतिल ( ३।२।२० वा० ) इति तिलन्तुदः । क्ते - तुन्नः ( द्र० ८।२।४२ ) । दाम्नीशस ( ३ | २|१८२ ) ष्ट्रन्तोत्रम् । पातुदि ( उ० २।७ ) इति थक् - तुत्थम् अञ्जनम्, धातुविशेषश्च ॥ १ ॥
२. द प्रेरणे । प्रणुदति प्रणुदते' । नोत्ता । नुदविदोन्दत्रा ( ८|२| ५६) इति वा निष्ठानत्वं - नुत्तः, नुन्नः । ग्लानुदिभ्यां डौ ( उ० २। EX) - At: 11211
१०
३. दिश प्रतिसर्जने । प्रतिसर्जनं त्यागः । दिशति, दिशते । क्तिन् ( द्र० ३।३।१४ ) - दिष्टिवितस्तिः । ऋत्विग्दधृग् ( ३।२।५६ ) इति १५ क्विन् - दिक् । नाम्न्यादिशिग्र हो : ( ३ | ४|५८ ) णमुल् - नामादेशमामन्त्रयते । दिष्टं दैवम् ॥३॥
४. भ्रस्ज पाके । ग्रहिज्यावयि (६।१।१६ ) इति सम्प्रसारणम्भृज्जति, भृज्जते । भ्रस्जो रोपधयोरमन्यतरस्याम् ( ६/४/४७ ) - भ्रष्टा भट, प्रसारणविषये नेष्यते, भृष्टलुञ्चितलिङ गात् २० भृज्ज्यात् । बभ्रज्ज बभर्ज, वृश्चतिपृच्छति भृज्जतीनाम् प्रविशेष : ' । सनीवन्त ( ७।२।४६ ) इति वेट् - बिर्भाजिषति बिभ्रज्जिषति, बिभर्क्षति त्रिभ्रक्षति । व्रश्चभ्रस्ज ( ८२३६ ) इति षः - भृष्टः, भृष्टिः ।
-
१. अत्र धातुवृत्तौ ( पृष्ठ ३२३) स्वामिनाम्ना उद्धृतः पाठोऽनुसन्धेयः । २. काशिकायां (२।३।३१) राजदन्तादिगणे 'मृष्टलुञ्चितम् ' पठ्यते । वर्धमानस्तु भृष्टलुञ्चितम्' इति पठित्वा लक्ष्यमपि निर्दिदेश ( गणरत्नमहो० पृष्ठ ६५) ।
२५
३. अत्र 'ग्रहिवृश्चति पृच्छतिभृज्जतीनाम विशेष:' इति भाप्यवचनम् ' ( ६ |१| १७) नुसंधेयम् । लिबिशेनेदमबुध्वा 'वृश्चतिपृच्छति भृज्जतीनाम्' इतोऽग्रे ६।१।१३ सूत्रसंख्या निर्दिष्टा ।