________________
२.४२
' ' क्षोरतराङ्गण्यां
२६. छन्दसि । आगणान्ताच्छन्दोऽधिकारः' । ३०. अह व्याप्तौ । अह्नोति ॥२६॥ ३१. दघ धातने। दघ्नोति ॥२७॥
३२. चमु भक्षणे । आचम्नोति । भ्वादी ( १ । ३१५ ) प्राचामति ॥२८॥
३३. ऋक्षि चिरि जिरि दाश द हिंसायाम्। ऋक्ष्णोति' प्रानृङ्क्ष । ऋणोति क्षिणोति इत्येके । चिरिणोति, जिरिणोति । एकाचां च चिरेजिरेः (द्र० ११ पृ० ५ पं० ३) इति नानुबन्धिता । दाश्नोति । दाशः । दृणोति । दुर्ग'स्तु तिक तिघ' षघ ऋक्ष क्षिरि चिरि जिरि
१. उद्धृतमिदं पुरुषकारे (पृष्ठ २४) । छन्दसि इति सूत्रस्य इदं व्याख्यानं 'दध घातने' (३१) इत्युत्तरसूत्रानन्तरं मुद्रितं जर्मनसंस्करणे । स च लेखकप्रमादजः । अस्माभिस्त्वयं यथास्थानं प्रापितः ।
२. ऋक्ष्णोति, आनर्भ' इति लिबिशपाठः। ऋक्षि-धातोरिदित्त्वान्नुमा भाव्यम् । पुरुषकारस्तु स्वामिनाम्ना शुद्धमेव सनुमं पाठमुदाजहार । तथा हि -"क्षीरस्वामी तु ऋक्षि इति पठित्वा ऋङ क्ष्णोति इति आनृङ क्ष इति चोदाहृत्य ऋणोति क्षिणोति इत्येके” इत्याह (पुरुष० पृष्ठ २४) ।
___३. दुर्गः कातन्त्रधातुपाठव्याख्याता । अस्मदीये कातन्त्रधातुपाठस्य हस्तलेखे 'तिघ' स्थाने 'तिग' पठ्यते । सायणोऽपि । धातुवृत्तौ दुर्गनाम्ना 'तिग' इत्येव पठति (पृष्ठ ३२२) । षघ धातोरुत्तरमस्मद्धस्तलेखे कश्चित् पाठस्त्रुटितः । सायणस्तु 'षघ रि क्षि चिरि' इत्येवं पठति (पृष्ठ ३२२) । 'दाश' स्थाने कातन्त्रधातुपाठे 'दास' इति पठ्यते, 'द्रु' स्थाने च 'द्रुह' । सायणस्तु दुङ' पठित्वा 'दुनुते' इत्युदाजहार (पृष्ठ ३२२) । हिंसायाम्' इत्यस्य स्थाने कातन्त्रपाठे 'जिघांसायाम्' पाठः । काशकृत्स्नधातुपाठे तु 'तिक तिग षिध तिक्षु तीक्षु चिरि जिरि दास द्रुहि जिघांसायाम्' इति पठ्यते (पृष्ठ १५४) ।
इदं चात्रावधेयम्-पाणियीये धातुपाठे छान्दसत्वेन स्मृता धातवः काशकृस्नव्याख्याने विना छन्दोनिर्देशं पठिताः । तमनुसृत्यैव च लौकिकमात्रविषये कातन्त्रेऽपि निर्दिष्टाः । तदनुसारमेव च चान्द्रोऽपि 'ऋक्ष चिरि जिरि हिंसायाम् (५।२२) पठ्यन्ते।
४. 'चषध' पाठा०।
२०