________________
स्वादिगणः (५)
२४१
नश्च । चकाराद् आस्कन्दने ।' तिक्नोति, तिग्नोति । के (द्र० ३॥१॥ १३५) तिकः ॥२०,२१॥
२५. षघ हिंसायाम् । सघ्नोति । सिसघिषति । सिषाधयिषति । दुर्गस्याषोपदेशोऽयम् -सिसाघयिषति । तिक तिघ चषघ' हिंसायामित्येके - तिघ्नोति चषघ्नोति ॥२२॥
२६. निधृषा प्रागल्भ्ये । धृष्णोति । धृष्टः, प्रधृष्टः प्रपितः धृष्टमनेन, धर्षितम्, निष्ठा शीस्विदि (११२।१६) इति कित्त्वं नास्ति । त्रसिगृधिधृषिक्षिपेः क्नुः (३।२।१४) - धृष्णुः । भाषायां शासियुधि (३।३।१३० वा०) इति युच- दुर्धर्षणः । धधिष च संज्ञायाम (उ० २।८२) इति क्युः-धिषणा धीः । शकषज्ञा (३।४।६५) इति तुमुन् १० -धृष्णोति भोक्तुम् । ऋत्विग्ग (३।२।५६) इति दधृक् । चुरादौ धृष अप्रसहने (१०।२३९)-धर्षयति ॥२३॥
२७. दन्भु दम्भे। दभ्नोति। श्रन्थिग्रन्थिदन्भिस्वन्जीनाम् (द्र० १।२।६ काशिका) किति नलोपः-देभुः । सनीवन्तर्ध (७२।४६) इति वेट - दिदम्भिषति, अनिट् पक्षे- दन्भ इच्च (तु० ७।४।५६)- १५ धिप्सति धीप्सति, हलन्ताच्च (१।२।१०) इति कित्त्वे हल्जातिराश्रीयते । दब्ध्वा दम्भित्वा । दब्धः ॥२४॥
२८. ऋधु वृद्धौ । ऋध्नोति । दिवादौ (४।१३५) ऋध्यति । तत्रैव ग्रहणान्युक्तानि ॥२४॥
१. यथा तु काशकृत्स्नकातन्त्रचान्द्रहै मशाकटायनधातुपाठेघु पाठस्तथा तिक २० तिग धात्वोहिसार्थः, न तु स्कन्दनार्थः । प्रतीयते कस्यचित् प्राचीनश्लोकबद्धधातुपाठस्यानुकरणेन मध्ये चकारः पठितः स्यात् 'ष्टिघ आस्कन्दने तिक, तिग च षध हिंसायाम्' । इदं रहस्यमविदित्वैव कश्चिद् वृत्तिकारैश्चकाराद् आस्कन्दनार्थो गृहीतः । अपरैश्च चकारः षघ धातुना संयोज्य चषघ धातुः स्वीकृतः । द्र० इहैव उत्तर धातुसूत्र (२५) व्याख्या । ___२. दुर्गः कातन्त्रधातुपाठव्याख्याता कातन्त्रधातुपाठे तु एघ इत्येव पठ्यते । स्वयमपि ऋक्षि चिरि (३३) इत्युत्तरसूत्रव्याख्याने दुर्गनाम्ना 'षघ' इति षोपदेशमेव पठिष्यति ।
३. 'चखघ' 'चखघ्नोति' पाठा० । अयं च षकारस्यैव खकारोच्चारणजन्योऽपपाठः ।
४. अस्यैव पृष्ठस्य प्रथमा टिप्पणी द्रष्टव्या।
२५