SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ दिवादिगण; (४) २३३ कित् । अच् (द्र० ३।१।१३४)-मेदाख्यो देशः' । असुल् (द, उ० ६४६)-मेदो वसा । मेदिनी । स्वादौ (११४९२) मेदते, अमेदिष्ट । चुरादी मिद स्नेहने (तु. १०७) मेदयति ॥१३१॥ १३४. निविदा स्नेहनमोहनयोः । विद्यति । अश्विदत् । क्ष्विगणः । प्रविण्णः प्रक्ष्वेदितः । क्षिवण्णम् अनेन, श्वेदितम् (द्र० ७। ५ २॥१७॥, १।२।१६) । भ्वादौ (११७०५) अव्यक्तशब्दे श्वेदति ॥१३२॥ १३५. ऋधु वृद्धौ। ऋध्यति । आर्धत्, मा ऋधत् । पानृधुः । सनीवन्तर्ध (७।२।४७) इति वेट–अदिधिषति ईर्त्सति, प्राप्जप्यधामोत् (७।४।५५)-अर्धयति, आदिधत् । ऋदुपधाच्च (३।१।११०) १० इति क्यप् - ऋध्यः । पञ् (द्र० ३।३।१८,१६)-अर्धः । ऋद्ध्वा अधित्वा, न क्त्वा सेट् (१।२।१८), ऋद्धः । स्वादौ । (५।२८) ऋध्नोति ॥१३३॥ • १३६. गृधु अभिकाङ्क्षायाम् । गृध्यति । अगृधत् । जिघृत्सति । सिपि धातोरा (८।२।७४)-अजर्घाः अजर्घत्, यङ लुगन्ताल्लङ, १५ प्रजर्ग/त् लुङि । त्रसिगृधि (३।२।१४०) इति क्नुः-गृध्नुः । जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वल (३।२।१५०) इति युच्–गर्धनः । सुसूधागृधिभ्यः कन् (द० उ० ८।४२) - गृध्रः । गृद्ध्वा गर्धित्वा। गर्धः । गृद्धः । चुरादो गृधिवञ्च्योः प्रलम्भने (१।३।६७) तङ --- गर्धयते ॥१३४॥ १. भ्वादिसूत्रव्याख्याने (४६२) 'मेदाख्यो म्लेच्छः' इत्युक्तं स्वामिना । तत्रस्था टिप्पण्यप्यत्र द्रष्टव्या (पृष्ठ १०६) । २ क्षीरस्वामी भ्वादौ निविदा स्नेहनमोहनयोः' (४६३) इत्यपि पठति, परन्तु निविदा अव्यक्ते शब्दे' (११७०५) इति सूत्रव्याख्याने, इह च न तं निर्दिशति, तेन 'ज्ञायते भ्वादौ विक्ष्विदा स्नहेनमोहनयोः' इति पठन्नपि न तम- २५ भिमनुते । अत एवान्ये व्याख्यातारस्तत्स्थाने 'निष्विदा' इति पठन्ति । ३. क्षीरतरङ्गिण्यां नायं चुरादौ क्वचित् पठ्यते । अत्र लिबिशेन हैमधातुपारायणदर्शनाय ४।४४ संख्या निदर्शिता । ३।४४ इति युक्ता संख्या ज्ञेया, जुहोत्यादिगणस्यादादावन्तर्भावात् । तत्र 'केचित्' पदेन क्षीरतरङ्गिण्या इहस्थो ग्रन्थः स्मर्यते।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy