________________
२२०
- क्षोरतरङ्गिभ्यां पद्रो ग्रामः । णित् कसिपद्यर्तेः(उ०१।८५)--पादूः पादुका। पदवी बाहुलकाद् (द्र० उ० ४।१३३ उज्जल०) अटवीवत् (द्र० १।१६८, पृष्ठ ५४) । चुरादौ (१०१२८१)आगवीर्य उपपदने ? ।
अत्रैव खिद दैन्य इति दुर्गः-खिद्यते । खेत्ता। खिद्यत इति कर्म५ कर्तरीति त वामनः । रुधादौ (७।१६) खिन्ते । तुदादौ खिद परितापे (६।१४१)-खिन्दति, खेदः खिन्नः ॥५६॥ . .
६२. विद सत्तायाम् । सत्ता भावः । विद्यते । वेत्ता । विन्नः । अदादौ विद ज्ञाने (२१५६)-वेत्ति, वेदिता । तुदादौ विदल लाभे (६। १३६)-विन्दति । रुधादौ विद विचारणे (७.१७)-विन्ते, विनत्ति। चुरादौ विद चेतनादिषु (१०।१५४)-वेदयते ।।६०॥
६३. बुध अवगमने। बुध्यते । बोद्धा । दीपजन (३।१।६१) इति वा चिण्- अबोधि विद्वान्, अबुद्ध । बुधयुध (१।३।८६) इति बोधयति । के (द्र० ३।१।१३५) बुधः । मतिबुद्धि (३।२।१८८) इति वर्तमाने क्तः -राज्ञां बुद्धः । भ्वादौ बोधने (१२६१४) बोधति ॥६१।
६४. युध संप्रहारे। संप्रहारो हननम् । युध्यते । योद्धा । योधयति । राजनि युधिकृतः (३।२।९५) । क्वनिप्-राजयुध्वा । सहे च (३।२।९६)-सहयुध्वा । घार्थ कः (द्र० ३।३।५८ वा०)-पायुधम् । भाषायां शासियुधि (३।३।१३१ वा०) इति युच्-सुयोधनः
॥६२॥ ६५. अनो रुध कामे । अनुपूर्वो रुधिर् इच्छार्थे दिवादिः । अनुरुध्यते । नेह-रुणद्धि । रोधयति ॥६३॥
६६. मन ज्ञाने । मन्यकर्मणि (२।३।१७) इति चतुर्थी--न त्वा तृणाय मन्ये । एहि मन्ये प्रहासे लट् (८।१।४६), प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च (१।४।१०६) एहि मन्ये रथेन यास्यसि, न यास्यसि यातस्ते पिता । मन्यतेः (द्र० ३।२।८२ काशिका) णिनिः
१. उद्धृतं धातुवृत्तौ (पृष्ठ २६७) । सुधाकरोऽपि क्षीरस्वामिपाठमेवोउद्धृतवान् इति धातुवृत्तितः प्रतीयते । वामनीये काव्यालङ्कारे तु 'क्षीयते इति कर्मकर्तरि, स्विद्यत इति च' (५॥२॥५,६) पाठ उपलभ्यते । २. वित्तः' पाठा० ।
३. विनति' कोशेषु पाठ० । ४. 'वेदनादिषु' पाठा०। ५. 'यातस्तव पितामहः' पाठा० ।
३०