________________
१५०
( क्षीरतरङ्गिण्यां
ARI
६७१. शु श्रु गतौ' । शवति । शुङ्गा प्ररोहः । श्रुवः श च (३॥१॥ ७४) इति अनुः-आशृणोति' चैत्राय, प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता (१।४।४०) सम्प्रदानम् । समो गम्यूछि (१।३।२६ का०) इति तङ -संशृणुते । कृसृभृ (७।२।१३) इति नेट-शुश्रोथ । भाषायां सदवसश्रुवः (३।२।१०८) क्वसुः-शुश्रुवान् । ज्ञाशु स्मदशां सनः (१॥ ३।५७) आत्मनेपदम् - शुश्रूषते। प्रत्याभ्यां श्रु वः (१।३।५६) नास्ति - प्रतिशुश्रूष ति। वौ क्षुश्रु वः (३।३।२५) घञ् विश्रावः । स्रवतिशृणोतिद्रवति (७।४।८१) इत्योरित्त्वं वा- शिश्रावयिषति, शुश्रावयिषति; अशिश्रवत्, अशुश्रवत् । ग्रहादौ (द्र० ३।१।१३४) श्रावी, श्रवीत्येके । हुयामाश्रु भसिभ्यस्त्रन् (उ०४।१६८)-श्रोत्रम् । उणादौ श्रवणोऽश्वत्थः । ल्युट (द्र० ३।३।११७) श्रवणं कर्णः । असुन (द० उ० ६।४६) श्रवः । वहिश्रियुगुश्रुग्लाहात्वरिभ्यो नित् (तु० उ० ४।५१) इति निः- श्रोणिः ॥१०६,६१०॥
६७२. षु प्रसवैश्वर्ययोः । सवति । सोता। [कर्मणि-] सुषुवे । सुतः । सवनः । सवः । अदादौ (२।३४) सौति । स्वादौ षुत्र अभि
१. स्मृतोऽयं पाठः पुरुषकारे (पृष्ठ ३१) । सायणादयो नेमो पठन्ति । अत्र बहवः पाठभेदा दृश्यन्ते तत्तद्ग्रन्थेषु। .
२. पुरुषकारे तु कृष्णलीलाशुकमुनिराह-क्षीरस्वामी तु शु श्रु गतौ इति पठित्वा शवति शृङ्गं प्ररोहः, आशृणोति चैत्रायेति चोदाहृत्य' ......... ... २० (पृष्ठ ३१)। अत्र शुधातोः पाठात् पुरुषकारस्थः 'शृङ्ग' पाठस्त्वपपाठ एव ।
३. यदि श्रु' धातोः भ्वादिपाठे सत्यपि 'श्र वः शृ च' इत्यनेन नित्यं श्नुविकरणः स्यात् तमुस्य म्वादिपाठोऽनर्थकः स्यात्, तथा सति स्वादावेवेमं पठेत, सत्यप्येवं यदयमाचार्यः भ्वादौ पठति, अनुप्रत्ययं च विदधाति, तेन न
नित्यः अनुविकरण इति ज्ञापयति । तथा संति 'श्रवति' इत्यादयोऽपि भौवादिकाः २५ प्रयोगाः द्रष्टव्याः । (ऋग्वेदे शब्विकरणो बहुत्र श्रूयते) । काशकृत्स्नीयकन्नड.
टीकायां 'श्रवति - शृणोति' उदाह्रियते । तत्र 'शृणोति' निर्देशोऽर्थनिदर्शकः । लटि रूपं तु 'श्रवति' इत्येव (पृष्ठ ५६) । तेन श्रवति शृणोति च स्वतन्त्री घातू । अत्र कृञ् करणे (११६३६) धातोष्टिप्पणी ४ द्रष्टव्या (पृष्ठ १३६)।
__४. उज्ज्वलदत्तस्तु 'बहुलमन्यत्रापि' (उ० २।७८) इत्यत्र 'श्रवणा नक्षत्रम्' ३०.. इत्याह ।
५ स्नानकालायतश्च सवः' पाठा० ।
1. H