________________
क्षीरतरङ्गिण्यां
५१६. स्खद खदने । खदनं विदारणम्' । स्वदयति ॥ ४७७ ॥
४१७. क्षजि गतिदानयोः । अस्य पाठोज्नुपधाया अपि चिण्णमुलोदीर्घार्थ : ( द्र० ६ |४| ६३) एतदर्थमेव तत्र ह्रस्वविकल्पे कर्तव्ये दीर्घ • विधिः । एवं दक्षिकन्दिक्रन्दिक्लन्दीनां (१।५१८,५२०) ज्ञेयम् । क्षजेति ५ कौशिकः । चुरादौ क्षजि कृच्छ्रजावने (१०/७३) क्षञ्जयति ॥ ७४८ ॥
१०
११२
५१८. दक्ष गतििहंसनयोः । दक्षते । दक्ष वृद्धौ शीघ्रार्थे च ( १ | ४०१) इत्यस्यैवाथभेदाद् घटादिकार्यार्थं पुनः पाठः ।।७४६॥
२५
1
५१६ ऋप कृपायाम् । ऋपते । ऋपयति । ऋपेः प्रसारणाञ्च (तु० ३।३।१२४ ग० सू० ) इति कृपा । उणादौ कृपणः ॥७५० ।।
५२०. कदि ऋदि क्लदि वैक्लव्ये । विक्लवः कातरः । वैकल्य' इति चन्द्र : ( १।५२० ) क्रन्दन्ते, ऋन्दा । कद, ऋद, क्लद, इति नन्दी' ऋदा । कदि ऋदि क्लदि ग्राह्नाने रोदने च (१।५८) इति परस्मैपदिनः - क्रन्दति ।। ७५१ - ७५३।।
५२१. ञित्वरा सम्भ्रमे । सम्भ्रमोऽत्राशुकारिता । त्वरते । त्वर१५ यति । त्वरा । प्रतत्वरत् । त्वरित्वा । क्विपि - तूः । ञीतः क्तः (३ । २।१८७) निष्ठायां रूष्यमत्वरसंघुषास्वनाम् (७/२/२८) इति वेट् - तूर्णः, त्वरितः । इत्थं चादित्वं प्रपञ्चार्थम् । तूर्तिः । वहि श्रियुग्लाहा - त्वरिभ्यो नित् ( दश० उ० १।२१) तूणि: ।। ७५४।।
1
५२२. घटादयः षितः । दर्शितं षित्त्वफलम् । अत्र पूर्वा दश पठितः, २० दक्षकन्द्यादयस्तु चत्वारः स्थानान्तरपठिताः कार्यार्थमनूदिता इत्येके ||
१. 'स्वदनं विद्रावणमिति स्वामी' इति धातुवृत्तावुद्धृतः पाठः ( पृष्ठ १३४) । २. चान्द्रधातुपाठे (१॥५२०) 'वैक्लव्ये' इति मुद्रित: पाठ: । स चापपाठ: प्रतीयते ।
३. उदृधृतं पुरुषकारे (पृष्ठ ८१) धातुवृत्ती (पृष्ठ १३५ भ्रष्टः पाठः) च । ४. उद्धृत पुरुषकारे (पृष्ठ ८१ ) ।
५. प्रादितश्च (७।२।१६ ) इति सूत्रं निष्ठायां नित्यमिणनिषेधार्थ म्. इह तु मत्वर (७.२२८) इत्यनेन प्रत्यक्षमिटो विकल्प उच्यते । तथा सति आदित्करणमनर्थकमेव, न चान्यत् किंचिदादितः फलम् इति भावः । सम्भवति धातुपाठ आदित्वं पूर्वाचार्याणामनुरोधेन स्यात् ।