________________
भ्वादिगणः (१)
[अथ सेट प्रात्मनेपविनः] २६४. घिणि घुणि घृणि ग्रहणे । इतः कम्वन्ताः (१।३००) दश सेट प्रात्मनेपदिनश्च । घिण्णते, घिण्णितः । घुण्णते' । घृण्णते ॥४२१. ४२३॥
२६५. धुण धूर्ण भ्रमणे । घोणते । घोणः। घुणाक्षरम् । घुणा- ५ वर्तोऽरघट्टः । घूर्णते । तुदादौ (६।४६) परस्मैपदिनी स्तः- घुणति, घूर्णति ॥४२४,४२५॥
२९६. पण व्यवहारे स्तुतौ च । चक्रपाणि पणायति, प्रायव्यवधानात् तङ् नास्ति । गपूधपविछपणिपनिभ्य प्रायः (तु० ३३१२२८) इति स्तुत्यर्थेन पनिना साहचर्यात व्यवहारार्थस्य पणेरायो नास्ति। १० व्यवहपणोः (२।३।५७) इति षष्ठी-शतस्य पणते । न चोपलेभे वणिजां पणायाम् (भट्टि० ३।२७) इति तु भट्टिन्तिः । अवधपण्य (३।१।१०१) इति पणितव्ये पण्यः साधुः । नित्यं पणः परिमाणे (३। ३६६) इत्यप-पणः । गोचरसंचर (३।३।११९) इत्यापणः साधुः ।
१. इतोऽग्रे 'घुण्णः' इति क्वचिदधिकम् ।
२. धातुवृत्ती क्षीरस्वामिनो मते 'पणायते' इत्यात्मनेपदमुक्तम् (पृष्ठ १०), परन्त्वत्र तदभावो विधीयते । काशकृत्स्नधातुपाठे तु पण पन व्यवहारे स्तुती च' इति पठ्यते । तस्य कन्नडटीकायां 'पणते पणायते, पनते पनायते' इत्येवमुभाभ्यां सार्वधातुक मायविकल्प प्रात्मनेपदं चोदाह्रियते (१।४८०, पृष्ठ ७६) कियारत्नसमुच्चयेऽपि "पणायते पनायते इति पक्षान्तरे' इत्युक्तम् २० (पृ०६७) ।
३ वृत्तिकारदयोऽप्यत्रवानुकूलाः । तथापि निघण्टावर्चतिकर्मसु (३।१४) 'पणायति पणते' इत्युभयपाठदर्शनात स्तुत्यर्थादपि पणतेरायविकल्पो द्रष्टव्यः । तथा सति काशकृत्स्नीयं पूर्वोक्तं (टि० २) व्याख्यानं युक्तमेव। . . ४. उद्धृतमिदं धातुवृत्तौ (पृष्ठ ८६) । काशकृत्स्नपाठानुसारं तु व्यवहारे २५ ऽप्यायो भवति (मस्मिन्नेव पृष्ठे टि०२) तथा सति न भट्टिर्बभ्रामेति शक्यते वक्तुम् । वणिक्पदनिर्वचने (२० २७१) पाणिपदनिर्वचने (उ० ४११३४) च 'पणायति व्यवहरति' इत्येवं निर्दिशन् स्वामिदयानन्दोऽन्यत्रवानुकूलः । विशेषस्तु दयानन्दीयोणादिवृत्ती (३।६६) टिप्पण्यां द्रष्टव्य: (पृष्ठ १५, टि. ४)।
३०