________________
६४
.
क्षीरतरङ्गिण्यां
अम्बा, मूशक्यम्बिभ्यः क्ल: (तु० उ० ४।१०८) अम्ब्लम् ॥३६८३७० __२६५. लबि अवलंसने च । उल्लम्बते, विलम्बते, अवलम्बते,
पालम्बत इत्यनेकार्थत्वम् उपसर्गद्योतितम्, [एवम् ] अन्यत्रापि उदा५ हार्यम् । प्रालम्बिका स्वर्णमाला। प्रालम्ब कण्ठाद् ऋजुलम्बि माल्यम् ।
लम्बिका त्रिकटा। विलम्बिका शकृद्बिलम्बः । नजि च लम्बेः (तु. उ० ११८७) इत्यूः अलाबूः । अलम्बुसा' नाम शाकम् ।।३७१।।
२६६. क' वर्णे। वर्णनं वर्णः, शुक्लादिश्च । कबते। अच. काबत् । ण्यत् (द्र० ३।१२४) काव्यम् । इः (द्र० उ० ४।१३६) १० कविः । कबरः कृष्णः। कबरी केशवेषः ॥३७२।।
- २६७. क्लीब प्रधाष्टर्ये । क्लीबते, अचिक्लीबत् । क्लीबः । क्लीबितः ।।३७३॥
२६८. क्षीबृ मदे । क्षीबते अचिक्षीबत् । अनुपसर्गात् फुल्लक्षीब (८।२।५५) इति निष्ठायां क्षीबः साधुः, उपसर्गात् प्रक्षीबितः । दिवादौ १५ क्षीबु निरसने क्षीब्यति ॥३७४।
२६६. शीभ कत्यने । शीभते। शीभरः कत्थनः ॥३७५।। २७०. चीभ च । चात् कत्यने । चीभते ॥३७६॥ २७१. रेभृ शब्दे । रेभते। क्षुब्धस्वान्तध्वान्त (७।२।१८) इति
१. द्र० 'प्रलम्बुसानां याता' इति पातञ्जलप्रयोगः (महा० १११। प्रथमा. २० ह्रिकान्ते) ।
२. बान्त इति क्रियारत्नसमुच्चय: (पृष्ठ ६८)।
३. काव्यम् कविः इत्येतावन्तस्थवर्णोपेती 'कु शब्दे' इत्यस्माद्धातो: सिध्यतः, न तु 'कबू वर्णे' इत्यस्माद् बान्तधातो: । बवयोरभेदस्तु चिन्त्य इति
पुरस्ताद (पृष्ट ६१ टि०२) उक्तम् । यच्चात्र कविसिद्धये इप्रत्यय उक्तः । २५
सोऽप्यजन्तादेव भवति, न तु हलन्तात् । तथा चौणादिकं सूत्रम्-अच इ: (४।१३६) ।
४. 'केशपाश:' पाठा० । ___५. दिवादी नायं क्षीरस्वामिना पठ्यते । चान्द्रधातुपाठे तु दिवादी 'ष्ठिव क्षीव निरसने' (४।४) इति वान्त: पठ्यते, न तु बान्तः । क्षीरस्वाम्यपि उत्तरत्र वान्तप्रकरणे क्षीव निरसने (११३७७) इति वकारान्तं पठति ।