________________
१३४ तत्वार्थसूत्रजैनागमसमन्वये
आयं संरम्भसमारम्भारम्भयोगकृतकारिताऽनुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥८॥ कर्मबन्धसदृशत्वयोर्व्यवहरण व्यवहारो नियक्तिकत्वान्नयुज्यते। तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव । कर्मबन्धस्य कारणम् । अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञातभावोऽज्ञातभावो महावीर्यत्वमल्लवीर्यत्वं चेत्येतदपि । तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य, सदृशत्वासदृशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं, विजानीयादिति । तथाहि-यजीवसाम्यात्कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम् । यतो न हि जीवव्यापत्त्या हिंसाच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वात् । अपि त्विंद्रियादिव्यापत्त्या तथाचोक्तम्-पञ्चन्द्रियाणि, त्रिविधं वलं च उच्छावासनिःश्वासमथान्यदायुः। प्राणाः