________________
६६
सुभाषितरत्नभाण्डागारम्
।
सुखम् ॥ ९ ॥ दूये कान्ताकरं वीक्ष्य मेणिकङ्कणवर्जितम् अतः परं पैरं दूये मॅणिकं कैणवर्जितम् ॥ १० ॥ रात्रौ जानुर्दिवा भानुः कृशानुः संध्ययोर्द्वयोः । पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ११ ॥ किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्मरेणोदरेणाहं प्राणैरपि विडम्बितः ॥ १२ ॥ दुःखं दुःखमिति ब्रूयान्मानवो नरकं प्रति । दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति ॥ १३ ॥ किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः ॥ १४ ॥ किं वाच्यं सूर्यशशिनोर्दारिद्र्यं महतां पुरः । दिनरात्रि विभागेन परिधत्तो यँदम्बरम् ॥ १५ ॥ मौर्य सर्वापदां निष्ठा का हि नापदजानतः । तस्मिन्नप्यविषण्णो यः क्क सोऽन्यत्र विपत्स्यति ॥ १६ ॥ यदि नाम कुले जन्म तत्किमर्थ दरिद्रता । दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा ॥ १७ ॥ कः स्वभाव - गभीराणां जानीयाद्वहिरापदम् । बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ १८ ॥ सन्तोऽपि न विराजन्ते हीनार्थस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ १९ ॥ वरं हि नरके वासो न तु दुश्चरिते गृहे । नरकात्क्षीयते पापं कुगृहात्परिवर्धते ॥ २० ॥ नातः पापीयसीं कश्चिदवस्थां शम्बरोऽब्रवीत् । यस्यां नैवाद्य न प्रातर्भोजनं तात विद्यते ॥ २१ ॥ न तथा बाध्यते राजन्प्रकृत्या निर्धनो जनः । यथा भद्राणि संप्राप्य तैर्विहीनः सुखोचितः ॥ २२ ॥ कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः। तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ २३ ॥ धर्मार्थकामहीनस्य परकीयान्नभोजिनः । काकस्यैव दरिद्रस्य दीर्घमायुर्विडम्बना ॥ २४ ॥ शीतमध्वा कदन्नं च वयोतीताश्च योषितः । मनसः प्रातिकूल्यं च जरायाः पश्च हेतवः ॥ २५ ॥ सुहृदां हि घनं भुक्त्वा कृत्वा प्रणयमीप्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ २६ ॥ लज्जावतः कुलीनस्य याचितुं धनमिच्छतः । कण्ठे पाराव - तस्येव वाक्करोति गतागतम् ॥ २७ ॥ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू । त्रियमाणस्य चिह्नानि या तान्येव याचतः ॥ २८ ॥ धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् । परचित्तगतान्दारान्पुत्रं च व्यसनातुरम् ॥ २९ ॥ शेषभाष्यं तु काव्येन काव्यं गीतेन हन्यते । गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया ॥ ३० ॥ जीवन्त्यर्थक्षये नीचा याच्ञोपद्रववञ्चनैः । कुलाभिमानमूकानां
[ २ प्रकरणम्
साधूनां नास्ति जीवनम् ॥ ३१ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वे शून्यं दरिद्रस्य ॥ ३२ ॥ पक्ष विकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् । सर्पोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ३३ ॥ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहमपि न तया न तथा वद राजन्कैस्य दोषोऽयम् ॥ ३४ ॥ पृथुकार्तस्वरपात्रं भूषितनिः शेषपरिजनं देव । विलसत्करेणुगहनं संप्रतिसममावयोः सदनम् ॥ ३५ ॥ दारिद्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम् । अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥ ३६ ॥ तावत्सन्ति सहाया यावज्जन्तुर्न कृच्छ्रमाप्नोति । अभिपतति शिरसि मृत्यौ कं कः शक्तः परित्रातुम् ॥ ३७ ॥ विकसामि वावुदिते संकोचमुपैमि चास्तमुपयाते । दारिद्र्यसरसि मग्नः पङ्कजलीलामनुभवामि ॥ ३८ ॥ घृतलवणतैलतण्डुलशाकेन्धनचिन्तयानुदिनम् । विपुलमतेरपि पुंसो नश्यति धीर्मन्दविभवत्वात् ॥ ३९ ॥ वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं यौवनस्थास्तरुण्यः । नैतद्रम्यं क्षुत्पिपासार्दितानां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥ ४० ॥ दारिद्र्य भोस्त्वं परमं विवेकि गुणाधिके पुंसि सदानुरक्तम् । विद्याविहीने गुणवर्जिते च मुहूर्तमात्रं न रैतिं करोषि ॥ ४१ ॥ दारि शोचामि भवन्तमेवमस्मच्छरीरे सुहृदिर्युषित्वा । विपन्नदेहे मयि मैन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम्, ॥ ४२ ॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो १२ बभाषे । न तेन दृष्टं कविना समस्तं दारिद्यमेकं गुणकोटिहारि ॥ ४३ ॥ धनैर्विमुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति ॥ ४४ ॥ अहो नु कष्टं सततं प्रवासस्ततोऽतिकष्टः परेंगेहवासः । कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥ ४५ ॥ वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम् । तृणानि
१ खेदं प्राप्नोमि २ मणियुक्तं यत्कंकणं तेन वर्जितम् ३ अत्यमृतम्: ४ मृण्मयपात्रम्. ५ धान्यकणरहितम्. ६ अग्निः ७ आकाशम् पक्षे, वस्त्रम्:
१ दरिद्रस्य दोष इत्यर्थः . २ पृथूनि कार्तस्वरस्य सुवर्णस्य पात्राणि यस्मिंस्तत्; पक्षे, - पृथुकानां बालानामार्तस्वरा रुदितशब्दास्तेषां पात्रं भाजनम् ३ भूषिता अलंकृता निःशेषाः परिजना यस्मिन्; पक्षे, भुवि उषिता निःशेषाः परिजना यस्मिन् . ४ विलसन्त्यः शोभमानाः करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्; पक्षे, बवयोः सावर्ण्यात् बिले सीदन्तीति बिलसदः, बिलसद एव विलसत्का बिलवर्तिनो ये रेणवो धूलयस्तै गहनं व्याप्तम्. ५ गुहम्. ६ विचारशीलम्. ७ प्रीतिम्८ स्थित्वा ९ विनष्टशरीरे १० हतभाग्ये ११ गुणसमुदाये. १२ कालिदासः. 'एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' इति कुमारसंभवस्थे पथे. १३ कोटिगुणनाशकमिति भावः१४ परगृहवासः.