________________
धननिन्दा - धनिप्रशंसा - दरिद्रनिन्दा
दुःखं धिगर्थाः कष्टसंश्रयाः ॥१७॥ वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं न च धनगर्वितबान्धवशरणम् ॥ १८ ॥ तानीन्द्रियाण्यविकेलानि मनस्तदेव सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव स्यन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १९ ॥ आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान्प्रपश्यसि घटाञ्जलयन्त्रचक्रे रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥ २० ॥ धनमपि परदत्तं दुःखमौचित्यभाजां भवति हृदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुर्बा - धते नेत्रमन्तर्जनयति च स एवाह्लादमन्यत्र गात्रे ॥ २१ ॥ लमेद्यैदयुतं धनं तद्धनं धनं यद्यपि लभेत निर्युतं धनं निधनमेव तज्जायते । तथा घँनपरार्धकं तदपि भावहीनात्मकं यदक्षरपदद्वयान्तरगतं धनं तद्धनम् ॥ २२ ॥ दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो दूरेण लमाकलय्य हुतेभुग्भस्मीकरोति क्षणात् । प्लावयते क्षितौ विनिहितं यक्षा हरन्ति ध्रुवं 'दुर्वृत्तास्तनया नयन्ति निधनं धिग्धिग्धनं तद्बहु ॥ २३ ॥
अम्भः
धनिप्रशंसा
धनवान्बलवाँलोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ १ ॥ वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धाश्च ये परे । ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ २ ॥ न सा विद्या न तच्छीलं न तद्दानं न सा कला । अर्थार्थिभिर्न तच्छौर्ये धनिनां यन्न कीर्त्यते ॥ ३ ॥ पतन्ति खड्गधारासु विशन्ति मैर्कैरालयम् । किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः ॥ ४ ॥ एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो - ऽर्थिभिः ॥ ५ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः । यस्यार्थाः स पुमाल्लोके यस्यार्थाः स च पण्डितः ॥ ६ ॥ को नाम नानुवृत्तिं सुमहानपि धनवतः कुरुते । वित्तेशभवनभित्तेः समीपमुपसेवते शंभुः ॥ ७ ॥ हेतुप्रमाण
१ वैकल्य र हितानि . २ अखण्डिता. ३ द्रव्यरूपोष्णतया. ४ विपद्धस्तम्. ५ दशसहस्रम्; पक्षे, अकारेण युतं धनम्, अधनमित्यर्थः . ६ लक्षसंख्याकम् ; पक्षे, निशब्देन युतं धनम्, निधन - मित्यर्थः. ७ धनस्य परार्धं संख्याविशेषः ; पक्षे, धनशब्दसंबन्धि परमर्षे 'न' इति तच्च भावहीनात्मकम् अभावबोधकमित्यर्थः . ८ अक्षरः परमात्मा तच्चरणद्वयान्तरे गतं प्राप्तं यद्धनं मोक्षरूपं धनं तदेव धनम् पक्षे, अक्षरयोः पकारदकारात्मकयोर्मध्यवर्ति मनं इत्येतदक्षरद्वयरूपम् धनमित्यर्थः ९ हरन्ति १० कपटम्. ११ अग्निः. १२ दुष्टाचरणाः. १३ नाशम् १४ समुद्रम्. ९ सु. र. भा.
६५
युक्तं वाक्यं न श्रूयते दरिद्रस्य । अय॑तिपरुषमसत्यं पूज्यं वाक्यं समृद्धस्य ॥ ८ ॥ वैभवभाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम् । गुणमात्मनामधर्म द्वेषं च गृणन्ति काणादाः ॥ ९ ॥ वाणी दरिद्रस्य शुभा हितापि ह्यर्थेन शब्देन च संप्रयुक्ता । न शोभते वित्त्वतः समीपे भेरीनिना दोपहतेव वीणा ॥ १० ॥ यादृशि तादृशि वित्तसनाये पश्च पिशाचशतानि वसन्ति । यानि पुनर्नि - वसन्ति महीशे तानि न केनचिदाकलितानि ॥ ११ ॥ न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा । कैपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सत्वरम् ॥ १२ ॥ गङ्गां च धारयति मूर्ध्नि सदा कपाली सा तस्य चुम्बति मुखं न कदाचिदेव । रत्नाकरं प्रति चुचु सहस्रवत्रैर्गङ्गा यतो युवतयः सधनानुकूलाः ॥ १३ ॥ धिगस्त्वेतां विद्यां धिगपि कवितां धिक् सुजनतां वयो रूपं धिग्धिग्धिगपि च यशो निर्धनवतः । असौ जीयादेकः सकलगुणहीनोऽपि धनवान्बहिर्यस्य द्वारे तृणलवनिभाः सन्ति गुणिनः ॥ १४ ॥ परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् । अतश्चानैकान्त्याद्गुरुलघुतयार्थेषु धनिनामवस्था वस्तूनि प्रथयति च संकोचयति च ॥ १५ ॥
1
दरिद्रनिन्दा
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः । बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ १ ॥ हे दारिद्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥ २ ॥ इह लोकेऽपि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥ ३ ॥ परीक्ष्य सत्कुलं विद्यां शीलं शौर्य सुरूपताम् । विधिर्ददाति निपुणः कन्यामिव दरिद्रताम् ॥ ४ ॥ येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः । तेनैव च दिवा भानुरहो दौर्गत्यमेतयोः ॥ ५ ॥ चाण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह । चाण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ ६ ॥ अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ७ ॥ द्वाविमावम्भसि क्षेप्यौ गाढं बद्धा गले शिलाम् । धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥ ८ ॥ अत्यन्तविर्मुखे दैवे व्यर्थे यत्ते च पौरुषे । मनखिनो दरिद्रस्य वनादन्यत्कुतः १ अतिकठोरम्. २ वैशेषिकशास्त्रप्रवर्तकाः. ३ कल्याणी. दुन्दुभिध्वनि लुप्ते, ५ शंकरेण. ६ मस्तकः ७ वधूपक्षे, - 'कुलमादौ परीक्षेत' इति विधिः; अन्यत्र - प्रायो हि पण्डिता अकिञ्चना इति दृष्टचरम्. ८ आकाशम् ; पक्षे, वस्त्रम् . ९ पराञ्जखे.
1
४