SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ૬૪ स्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषादाबाल्याद्विप्रवर्यैः स्ववदनविवरे धारिता वैरिणी मे । गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलसदनं नाथ नित्यं त्यजामि ॥ ४३ ॥ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम् - नन्दति पिता भ्राता न संभाषते भृत्यः गच्छति सुतः कान्ता च नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुते सभाषणं वै सुहृत्तस्माद्रव्यमुपार्जयख सुमते द्रव्येण सर्वे वशाः ॥ १६ ॥ धनप्रशंसा । | अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते । नामसाम्यादहो चित्रं धैत्तूरोऽपि मदप्रदः ॥ १ ॥ न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शना - चलते मनः ॥ २ ॥ धनमर्जय काकुत्स्थ धनमूलमिदं जगत् । अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥ ३ ॥ ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् शशिना तुल्यवंशोऽपि निर्धनः परिभूयते ॥ ४ ॥ कुत आगत्य घटते विघट्य क्व नु याति च । न लक्ष्यते गतिश्चित्रा घनस्य च धनस्य च ॥ ५ ॥ स्त्रीरूपं मोहकं पुंसो खून एव भवेत्क्षणम् । कनकं स्त्रीबालवृद्धषण्ढानामपि सर्वदा ॥ ६ ॥ न नरस्य नरो दासो दासश्चार्थस्य भूपते । गौरवं लाघवं वापि धनाधननिबन्धनम् ॥ ७ ॥ विभवो हि यथा लोके न शरीराणि देहिनाम् । चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् ॥ ८ ॥ यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ९ ॥ त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्ज - नाश्च । तमर्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १०॥ बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न च्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फला गुणाः ॥ ११ ॥ धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यः र्जयध्वम् ॥ १२ ॥ दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि धेनं धनं धनम् । इत्थमेव निनदः प्रवर्तते किं पुनर्यदि जनः सचेतनः ॥ १३ ॥ त्यक्त्वा युवा स्वयुवतिं सुविलासयोग्यां दुरं विदेशबसतौ निवसन्धनार्थी । रात्र्यागमे स्मरति तां न समेति तस्मात्कान्ताभ्रमादपि वरः कनकभ्रमोऽयम् ॥ १४ ॥ जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना । शौर्ये वैरिणि बज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १५ ॥ माता निन्दति नाभि । १. समुद्रः. २ भृगुणा. ३ सरस्वती. ४ कमलम्. ५ 'धचरः कनवाह्वयः' इति कोशः. ६ परिभवं प्राप्नोति. ७ शास्त्रशः ८ प्रेक्षणीयः ९ 'धनं धनं धनम्' इत्यनुकरणशब्दः; पक्षे, वित्तम्. धननिन्दा अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । जनितारमपि त्यक्त्वा निःखं गच्छति दूरतः ॥ १ ॥ लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् । शेषे धराभरक्लान्ते शेते नारायणः सुखम् ॥ २ ॥ वैरं हालाहलं पीतं सद्यः प्राणहरं विषम् । न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ३ ॥ भैक्ते द्वेषो जैंडे प्रीतिररुचिर्गुरुलङ्घनम् । मुखे च र्कटुता नित्यं धनिनां ज्वरिणामिव ॥ ४ ॥ आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति सँमे पथि । अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ५ ॥ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजम् । प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥ ६ ॥ धनं तावदसुलभं लब्धं कृच्छ्रेण रक्ष्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ ७॥ जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः ॥ ८ ॥ यथामिषं जले मत्स्यैभक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ९ ॥ राजतः सलिलादग्भेश्वोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ १० ॥ धनाशया खलीकारः कस्य नाम न जायते । दूरादामिषलोभेन बध्यते खेचरः खगः ॥ ११ ॥ बधिरयति कर्णविवरं वाचं मूकयति नयनमन्धयति । विकृतयति गात्रयष्टिं संपद्रोगोऽयमद्भुतो राजन् ॥ १२ ॥ लक्ष्म्या परिपूर्णोऽहं न भयं मेऽस्तीति मोहनिद्रैषा । परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकांसुनोः ॥ १३ ॥ अर्जुनी यति यदर्जने जनो वर्जनीयजनैतैर्जनादिभिः । मे नश्यति चिराय संचिता वश्चिता जगति के न संपदा ॥ १४ ॥ अर्थार्थी जीवलोकोऽयं ज्वलन्तमुपसर्पति क्षीणक्षीरां निराजीव्यां वत्सरत्यजति मातरम् शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमामुयात् ॥ १६ ॥ ॥ १५ ॥ अर्थार्थी यानि कष्टानि मूढोऽयं कुरुते जनः । अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये १ मना क्प्रियम् २ भ्रुकुटिमोटनेन वक्रम्. ३ भक्ताः सेवकास्तेषां द्वेषः; पक्षे, भक्तमन्नं तद्वेषः ४ जडेषु मूर्खेषु प्रीतिः; (पक्षे डलयोः सावर्ण्यात्) जले रुचिः ५ गुरूणां पित्रादीनामुलङ्घने; पक्षे, -गुरु यलङ्घनमुपवासस्तस्मिन्. ६ कटुभाषित्वम्; षक्षे, कटुत्वम्. ७ अविषमे. ८ आकाशे चरन्नपि ९ विलक्षणः १० राहोः ११ सहस्र बाहुवदाचरति. १२ भयत्रासादिभिः १३ झटिलि.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy