________________
लक्ष्मीस्वभावः
६३
भीरूनपि श्रीर्लब्धप्रसरेव वेशेवनिता दुःखोपचर्या भृशम् ॥ ३२ ॥ कस्मैचित्कपटाय कैटभरिपूरः पीठदीर्घालियां देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचमहे । यते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥ ३३ ॥ पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो नाहं मत्सरिणी न चापि चपला नैवास्ति मूर्खे रतिः । मूर्खेभ्यो द्रविणं ददामि नितरां तत्कारणं श्रूयतां विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नान्या गतिः ॥ ३४ तिर्यक्त्वं भजतु प्रतारयतु वा धर्मक्रियाकोविदं हन्तु स्वां जननीं पिवत्वपि सुरां शुद्धां वधूमुज्झतु । वेदान्निन्दतु वा हिनस्तु जनता किं वाऽनया चिन्तया लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्वन्द्यताम् ॥ ३५ ॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौढथं भवेदार्जवम् । तव प्रसादवशतो दोषा अमी स्युर्गुणाः ॥ ३६ ॥ हे पात्रापात्रविचारणाविरहिता यच्छत्युदारात्मतां मातर्लक्ष्मि चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी । ये देवार्चनलक्ष्मि क्षणिके स्वभावचपले मूढे च पापेऽधमे न त्वं सत्यशौचनिरता ये चापि धर्मे रतास्तेभ्यो लज्जसि निर्दये गतमतिनाचो जनो वल्लभः ॥ ३७॥ नाहं दुश्चरिणी न चापि चपला मूर्खो न मे रोचते नो शूरो न च पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वस्मिन्कृतपुण्ययोगविभवो भुङ्क्ते स मे सत्फलं लोकानां किमसाता राखि पुनर्दृष्ट्वा परां संपदम् ॥ ३८ ॥ हन्तुर्बन्धुजनान्धनार्थमैनधान्गन्तुः परस्त्रीशतं रन्तुर्जन्तु विहिंसकैः सह जनैः संतुध्यतो वञ्चनैः । वक्तुस्तीक्ष्णमयुक्तमेव वचनं पेक्तुर्मितं चौदनं नित्यं नृत्यसि मन्दिरेषु कमले कँत्यं तवैतन्मतम् ॥ ३९ ॥ यत्राभ्यागतदानमानचरणप्रक्षालनं भोजनं सत्सेवा पितृदेवतार्चनविधिः सत्यं गवां पालनम् । धान्यानामपि संग्रहो न कलहश्चित्तानुरूपा प्रिया हृष्टा ग्राह हरिं वसामि कमला तस्मिन्गृहे निश्चला ॥ ४० ॥ येषामन्यैकलत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ मूढं हृच्च परार्थचिन्तनभ्रोदकैस्ताम्यतस्तेषां लक्ष्मि गृहान्दृशापि भयभीतेवेह नो विधौ मिथ्यालभिज्ञं मुखम् । अप्रज्ञातपशून्बुभुक्षित शिशूनवीक्षसे ॥ ४१ ॥ नो जानाति कुलीनमुत्तमगुणं सत्त्वान्वितं धार्मिकं नाचारप्रवणं न कार्यकुशलं न प्रज्ञयालंकृतम् । नीचं क्रूरमपेतसत्त्वमदयं यस्मादियं सेवते तद्वंशानुगुणं पयोधिसुतया लक्ष्म्या प्रमाणीकृतम् ॥ ४२ ॥ पीतोऽग
किं कथयामि ते गुणान् । अनुरज्यसि हा जडे जने गुण - गौरे पुरुषे विरज्यसि ॥ २० ॥ वीक्षितानि तव वारिधि - कन्ये यत्र पालितजगन्ति लगन्ति । चित्रमत्र च परत्र च देही हिशब्द मपहाय चकास्ति ॥ २१ ॥ यद्वदन्ति चपलेत्यपवादं नैव दूषणमिदं कैमलायाः । दूषणं जलनिधेर्हि भवेत्तद्यत्पुराणपुरुषाय ददौ ताम् ॥ २२ ॥ चाञ्चल्यमुचैःश्रवसस्तुरंगात्कौटिल्यमिन्दोर्विषतो विमोहः । इति श्रिया शिक्षि सहोदरेभ्यो न वेद्मि कस्माद्गुणवद्विरोधः ॥ २३ ॥ श्वश्रूं विना वृत्तिरिह स्वतन्त्रा प्रायः स्नुषाणामपवादहेतुः । यद्वाणि लोके रमया विहीनां सतीमपि त्वामसतीं वदन्ति ॥ २४ ॥ उत्साह संपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसने ध्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः॥ २५ ॥ हालाहलो नैव विषं विषं रेंमा जनाः परं व्यंत्ययमत्र मन्वते । निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रथा हरिः ॥ २६ ॥ तापापहे सुहृदये रुचिरे प्रबुद्धे मित्रानुरागनिरते धृतसद्गुणौघे । स्वाङ्गप्रधान रिपूरितषट्पदौघे युक्तं तवेह कमले कमले स्थितिर्यत् ॥२७॥ रत्नाकरस्तव पिता कमले निवासो भ्राता सुधामयतनुः पतिरॉदिदेवः । केनापरेण कमले बत शिक्षितानि सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ २८ ॥ लक्ष्मि क्षमस्व वचनीयमिदं दुरुक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन । नो चेत्कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति पन्नगभो - गतल्पे ॥ २९ ॥ अँसौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्गेहं भवति पृथुकार्तस्वरमयम् । निविष्टः पल्यङ्के कलयति स 'कौन्तारतरणं प्रसादं कोपं वा जननि भवती यत्र तनुते ॥ ३० ॥ समुद्रस्यापत्यं प्रथितमहिमामुद्रित - भुवः स्वसा प्रलेयांशोस्त्रिनयनशिरोधामवसतेः । मुरौरा - तेर्योषित्सरसिरुहकिञ्जल्कनिलया तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलाऽऽलिङ्गति खलान् ॥ ३१ ॥ तीक्ष्णादुद्विजते मुदौ परिभवत्रासान्न संतिष्ठते मूर्खान्द्वेष्टि न गच्छति प्रणयिता - मत्यन्तविद्वत्स्वपि । शूरेभ्योऽप्यधिकं बिभेत्युपहसत्येकान्त
-
|
१
१ लक्ष्म्याः. २ नारायणाय; पक्षे,–वृद्धाय. ३ विषभेद:- ४ लक्ष्मीः ५ विपरीत भावम्. ६ चन्द्रः ७ नारायणः ८ हरिणशृङ्गवद्वक्राणि. ९ सर्पशरीरशय्यायाम्. १० हे जननि; भवति यत्र यस्मिन्पुरुषे प्रसादं तनुते करोत्यसौ पुरुषो भाग्यमैश्वर्ये धत्ते यत्र कोपं तनुते सोऽसौभाग्यं सौभाग्याऽभावं धत्ते. अयं प्रसाद विषयः परमसुखभोगानामास्पदम्• अयं कोपविषयः परमत्यन्तमसुखभोगा स्पदम् भवतीति शेषः ११ तस्य पूर्वोक्तस्य पुरुषस्य गेहं विविधचित्रयुक्तं तथा पृथु महत्कार्तस्वरं स्वर्ण तन्मयं भवति; पक्षे, चित्ररहितं तथा पृथुकानां बालानामन्नाद्यभाव प्रयुक्तेनार्तस्वरेण प्रचुरम्. १२ सुवर्णमयम्. १३ पूर्वोक्तः पुरुषः कान्ताया रतं रमणं तदेव रणं युद्धम् ; पक्षे, कान्तारं दुर्गमारण्यं तत्तरणं कलयति. १४ चन्द्रस्य. १५ विष्णोः.
१ वेश्या. २ प्रियः. ३ निष्पापान्. ४ प्राणिविघातकैः. ५ अयोग्यम्. ६ मितंपचम् ; कृपण मिति भावः ७ किं प्रकारकम् ८ परस्त्री. ९ पयो नीचैरेव गच्छति, समुद्रे क्रूरजलचराः प्रसिद्धाः, अत एव सिद्धमस्य सार्थकत्वम् ।