SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५४ सुभाषितरत्नभाण्डागारम् दुर्जननिन्दा खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्बमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥ न विना परवादेन रमते दुर्जनो जनः । काकः सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति ॥ २ ॥ विशिखेव्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः । प॒रस्य॒ हर॒ति प्राणान्नैतच्चित्रं कुलोचितम् ॥ ३ ॥ विषैमा मँलिनात्मानो द्विजिह्वा जिमँगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ४ ॥ दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ५ ॥ खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ६ ॥ अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य वारितः ॥ ७ ॥ ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ८ ॥ क्वचित्सर्पोऽपि मित्रत्वमियान्नैव खलः क्वचित् । न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः ॥ ९ ॥ उपकारोऽपि नीचानामपकारो हि जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १० ॥ अलकाश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः । उपर्युपरि संस्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ११ ॥ खलानां धनुषां चापि सद्वंशजनुषामपि गुणलाभो भवेदाशु परहृद्भेदकारकः ॥ १२ ॥ बेनिष्कपट - द्रोही बहुधान्योपघातकः । रेन्त्रान्वेषी च सर्वत्र दूषको मूषको यथा ॥ १३ ॥ नौश्च दुर्जनजिह्वा च ' प्रतिकूलविसर्पिणी। पैरप्रतारणायैव दारुणा केन निर्मिता ॥ १४ ॥ यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः । दूषयत्यचिरेणैव घुणैकीट इवाधमः ॥ १५ ॥ स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नैतिम् । गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ १६ ॥ अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् । पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ १७ ॥ वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः । श्वा भवत्यपकाराय I । १ विष्ठाद्यशुचि. २ बाणः ३ सर्पः ४ अन्त्यवर्णैौ 'खल' इति ५ कुटिलाः, ६ मलिनान्तःकरणाः ७ सर्पाः ८ प्रतीकारः ९ उपानहा पादस्थचर्म॑णा मुखभङ्गः. १० निवारणात; पक्षे, - जलात. ११ कुलम्, पक्षे, वेणुः १२ विनयादिः ; पक्षे, मौवीं. १३ बहु-निष्कपट-द्रोही; पक्षे,-बहु-निष्क-पट-द्रोही इति पदच्छेदः १४ बहुधा अन्योपघातकः ; पक्षे, - बहु-धान्य- उपघातकः इति पदच्छेदः १५ दूषणान्वेषी; पक्षे,छिद्रान्वेषी. १६ प्रतितीरम्; पक्षे, - विरुद्धम् १७ परेषां प्रकर्षेण तारणाय; पक्षे, - परेषां वञ्चनाय १८ भयंकरा; पक्षे, काष्ठेन. १९ वेणी ; पक्षे, कुले. २० स्वकर्मभिः २१ काष्ठवेधकः कृमिः २२ क्रियया निर्वृत्ताम्; पक्षे,-कपटयुक्ताम् २३ नम्रत्वम्. २४ मौर्वी पक्षे, - विनयादिः २५ धनुषः. [ २ प्रकरणम् लिहन्नपि दशन्नपि ॥ १८ ॥ वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ १९ ॥ स्नेहेने भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा ॥ २० ॥ आजन्मसिद्धं कौटिल्यं खलस्य च हैलस्य च । सोढुं तयोर्मुखाक्षेपमल मेकैव सा क्षमा ॥ २१ ॥ यथा यथैव स्नेहेन भूयिष्ठर्मुपचर्यते । धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २२ ॥ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो नु सदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ २३ ॥ दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते । अपि गङ्गाजलस्नानान्नाधःकेशः कुशायते ॥ २४ ॥ दह्यमानाः सुतीत्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ २५ ॥ खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥ २६ ॥ दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् । व्याघ्रस्य चोपवासेन पारणं पशुमारणम् ॥ २७ ॥ संत्यज्य शूर्पवद्दोषान्गुणान्गृह्णाति पण्डितः । दोषग्राही गुणत्यागी 'पंल्लोलीव हि दुर्जनः ॥ २८ ॥ खलो न साधुतां याति सद्भिः संबोधितोऽपि सन् । सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरायते ॥ २९ ॥ सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ३० ॥ अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं 'पारिप्लवं यथा॥३१॥ अशक्ताः शक्तिमात्मीयां श्लाघ्यन्ते च दुर्जनाः । ते भवन्त्युपहासाय महतामेव संनिधौ ॥ ३२ ॥ सर्पः क्रूरः खलः क्रूरः सर्पत्करतरः खलः । मन्त्रेण शाम्यते सर्पो ेन खलः शाम्यते कदा ॥ ३३ ॥ दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् । मुखप्रक्षालनात्पूर्वे गुदप्रक्षालनं यथा ॥ ३४ ॥ दुर्जनः सुजनो न स्यादुपायानां शतैरपि । अपानं मृत्सहस्रेण धौतं चास्यं कथं भवेत् ॥ ३५ ॥ खलास्तु कुशलाः साधोर्हितप्रत्यूहेकर्मणि । निपुणाः फणिनः प्राणानपहर्तुं निरोगैसाम् ॥ ३६ ॥ अहो बत महत्कष्टं विपरीतमिदं जगत् । येनपत्रपते साधुरसाधुस्तेन तुष्यति ॥ ३७ ॥ तक्षकस्य विष दन्ते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम् ॥ ३८ ॥ दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव ना 1 १ तैलेन; पक्षे, - ममतया २ भस्म; पक्षे, वैभवम्. ३ लाङ्गलम्. ४ पृथ्वी ; पक्षे, शान्तिः ५ बाहुल्ये न. ६ पूज्यते ७ अग्निः; पक्षे, - वैश्वानरः इति च्छेदः ८ तुलायष्टेः ९ राजहंसत्वम्. १० चालनी. ११ चञ्चलम्. १२ हितेऽन्तरायाचरणे. १३ निरपराधानाम्. १४ लज्जां प्राप्नोति. १५ सरलताम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy