________________
नैयायिकनिन्दा, मीमांसकप्रशंसा, मीमांसकनिन्दा, वैद्यप्रशंसा
बहवश्च नव्या ग्रन्थैर्व्यरुन्धत इमे हृदयान्धकारम् ॥ ४ ॥ प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञस्या - प्यपरिकलितन्यायशास्त्रस्य पुंसः । वादारम्भे वदितुमनसो वाक्यमेकं सभायां प्रैह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम् ॥ ५ ॥
नैयायिक निन्दा
परामृशन्तो लिङ्गानि व्यभिचारविचारकाः । तार्किका यदि विद्वांसो विटैः किमपराध्यते ॥ १ ॥ गुरोर्गिरः पञ्च - दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्रातवितर्कवादाः समागताः कुक्कुटपादमिश्राः ॥ २ ॥ कर्कशतर्कविचारव्यग्रः किं वेत्ति काव्यहृदयानि । ग्राम्य इव कृषिविलग्नश्चश्चलनयनावचोरहस्यानि ॥ ३ ॥ नैयायिकानां मलिनाम्बराणां जनुर्गतं रासभचिन्तयैव । तथापि वेश्यास्तनसंनिवेशस्तोतुः कवेः कोऽपि विशेष एव ॥ ४ ॥ न जिघ्रत्याम्नायं स्पृशति न तेंदङ्गान्यपि सकृत्पुराणं नादत्ते न गणयति किं च स्मृतिगणम् । पठशुष्कं तर्क परपरिभवाक्तिभिरसौ नयत्यायुः सर्वे निहतपरलोकार्थयतनः ॥ ५ ॥ प्रयत्नैरँस्तोकैः परिचितकुतर्कप्रकरणाः परं वाचोवश्यान्कतिपयपदौघान्विदधतः । सभायां वाचाटाः श्रुतिकटु रटन्तो घटपटान्न लज्जन्ते मन्दाः स्वयमपि तु जिह्रेति विबुधः ॥६॥ '$र्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदां घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः । प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छेटाव्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ७ ॥ हेतुः कोऽपि विशिष्टंधी
मितौ न ज्ञानयुग्मं मैरुत्त्वाचो नेति च मोघवादर्मुखरा नैयायिकाश्चेद्बुधाः । मेषस्याण्डमियत्पलं 'बैलिभुजो दन्ताः कियन्तस्तथेत्येवं संततचिन्तनैः श्रमजुषो न स्युः कथं पण्डिताः ॥ ८ ॥ साधु व्याकरणं हिताय विशदं काव्यं पिकीगीतवन्मीमांसा श्रुतितत्परा तदनुगं सांख्यं सपातञ्जलम् । त्वं तु न्याय विशुद्धवैदिकविधिव्या कोपबौद्धागमव्याघाताय निगूढतर्कगहन कामोदमाधास्यसि ॥ ९ ॥ हे हे मित्र जिता मयातिबलिनो विप्रा धनं चार्जितं शेषेभ्यः शरयन्त्र
दानमपिं सत्संपादितं भूरिशः । ग्रन्थाश्चापि कृताः सुतर्क
१ बुद्धेरशानम् २ अनभ्यस्त ३ वा ४ वेदम्. ५ वेदाङ्गानि . ६ नीरसम् ७ बहुभिः ८ मूर्खाः ९ लज्जां प्राप्नोति. १० कर्मचिन्तनं ब्रह्मचिन्तनं च. ११ परमाणुसमुदायः १२ व्याप्तिविशिष्टपक्षधर्मताज्ञानविशिष्टः १३ पूर्वोक्तगतांशद्वयम् १४ लगिन्द्रियप्रत्यक्षः १५ जलरका १६ काकाः
४३
घटकाः शास्त्राणि संदृष्य वै सोऽहं तर्कविभूषणोऽत्र गहने धात्रा शृगालः कृतः ॥ १० ॥
मीमांसकप्रशंसा
भगवदनभ्युपगमनं दैवतचैतन्यनिर्ह्रवश्चैषाम् । कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ १ ॥ आगमरूपविचारिण्यधिकरणसहस्रशिक्षित विपक्षे । स्वामिनि जैमिनि योगिन्युपरज्यति हृदयमस्मदीयमिदम् ॥ २ ॥ शबरकुमारिलगुरवो मण्डनभवदेवपार्थसारथयः । अन्ये च विश्वमान्या जयन्ति संत्रायमाणतन्त्रास्ते ॥ ३ ॥ नैयायिका वा ननु शाब्दिका वा त्रैयीशिरःसु श्रमशालिनो वा । वादाहवे बिभ्रति जैमिनी - यन्यायोपरोधे सति मौनमुद्राम् ॥ ४ ॥ आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्ति पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् । बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भ्यो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षाम् ॥ ५ ॥
मीमांसकनिन्दा
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम् । चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्यमानाः ॥ १ ॥ मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः । उद्घोषितोऽप्युपनिषद्भिशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ २ ॥
वैद्य प्रशंसा
गुरोरधीताखिलवैद्यविद्यः पीयूषपाणिः कुशलः क्रियासु । गतस्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः स्यात् ॥ १ ॥ रागादिरोगान्सुततानुषक्तान शेषकायप्रसृतानशेषान् । औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोsस्तु तस्मै ॥ २ ॥ अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित् । चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥ ३ ॥ माबोधि वैद्यकमथापि महाम| येषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव । औकारयत्यखिल एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ४ ॥ मैंस्ते दुःसहवेदनाकवलिते मग्ने स्वरेऽन्तर्गलं तप्तायां
१ अपलापः. २ शास्त्रदीपिका कर्ता पार्थसारथिमिश्रपण्डितः. ३ वेदत्रयी ४ वादयुद्धे ५ न्यायरूपे प्रतिबन्धके. ६ सामान्यविशेषभेदेन. ७ प्रतीतपदार्थैः सहाविचाल्यः. ८ अमृतं पाण सः अमृतवदवश्यमारोग्यद इत्यर्थः. ९ अविचार्य कार्यप्रवृत्तिः. १० विचाराशक्तिः ११ असंतोषः १२ आह्वयति. १३ मस्तके.