SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विशिष्ट विप्रशंसा दासाद्याः । दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः 11 ॥ साकूतमधुरकोमैलविलासिनीकण्ठकूजितप्राये । शिक्षासमयेऽपि मुदे रतलीलाकालिदासोती ॥ ६ ॥ पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासाः । अद्यापि तत्तल्यकवेरभावादनामिका सार्थवती बभूव ॥ ७ ॥ गणेश्वरः गणेश्वरकवेर्वचोविरचनैकवाचस्पतेः प्रसन्नगिरिनन्दिनीचरणपल्लवं ध्यायतः । तथा जयति भारती भगवती यथा सा सुधा मुधीभवति सुभ्रुवामधरमाधुरी म्लायति ॥८॥ गुणाढ्यः शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ ९ ॥ सैमुद्दीपित कंदर्पा कृतगौरीप्रसाधना । हरलीलेव लोकस्य विस्मयाय बृहत्कथा ॥ १० ॥ अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त । कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ११ ॥ गोविन्दराजः इन्दुप्रभारसविदं विहगं बिहाय कीरानने स्फुरसि भारति का रतिस्ते । आद्यं यदि श्रयसि जल्पतु कौमुदीनां गोविन्दराजवचसां च विशेषमेषः ॥ १२ ॥ जगन्नाथपण्डितः । कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः । नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ १३ ॥ माधुर्यैरपि धुर्यैद्रक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्ध्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ १४ ॥ गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम् वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ १५ ॥ मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषांचित्खलु हि विदधीरन्नपि मुदम् ध्रुबं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः ॥ १६ ॥ । जयदेवः साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्क - शासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते । माकन्द कैन्द कान्ताधर धरणितलं गच्छ यच्छन्ति भावं यावच्छृङ्गारसारखतमिह जयदेवस्य विष्वैग्वचांसि ॥ १७ ॥ १ साभिप्रायम्. २ रसोत्कर्षाधायकरसनिष्ठगुणवत्. ३ शब्दगुशालि. ४ अन्वर्था. ५ कामोद्दीपिका; पक्षे, भस्मीकृतमदना ६ वर्णित गौरीमाहात्म्या; पक्षे, अलंकृता पार्वती यया ७ गुणायकृतो ग्रन्थः ८ जीवित्वम् ९ शवाः १० हे मधो ११ आक्रोशं • कुरु. १२ सर्वतः ३५ ज्योतिरीशः यश्चत्वारि शतानि बन्घघटनालंकारभाञ्जि द्रुतं श्लोकानां विदधाति कौतुकवशादेकाहमात्रे कविः । ख्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्टेः कलानां निधिः संगीतागमनागरो विजयते श्रीज्योतिरीशः कृती ॥ १८ ॥ दण्डी जाते जगति वाल्मीकौ कविरित्यभिधाभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥ १९ ॥ त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ २०॥ द्रोणः सरस्वतीपवित्राणां जातिस्तत्र न देहिनाम् । व्यासस्पर्धी कुलालोऽभूद्यद्द्द्द्रोणो भारते कविः ॥ २१ ॥ धनदः यथेयं वाग्देवी सुकविमुखवास व्यसनिनी कुहूकण्ठीकण्ठे विलसति तथा चेदनवधिः । तदा भूमीभागे निरुपम तमः किंचिदिव वा समाधत्ते साम्यं धनदभणितीनां मधुरिमा ॥ २२ ॥ नरहरिः यशोधननिधेर्यदा नरहरेर्वचो वर्ण्यते तदा गतमदा मदालसमरालबालारवाः । न विभ्रमचरीकरीभवति चाधरी माधुरी सुधाकरसुधाझरीमधुकथा वृथा जायते ॥ २३ ॥ प्रवरसेनः कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्वला । सागरस्य परं पारं कपिसेनेव सेर्तुना ॥ २४ ॥ बाणः हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः । भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ २५ ॥ शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ २६ ॥ जाता शिखिण्डनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमातुं वाणी बाणो बभूवेति ॥ २७ ॥ श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णके । आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसंचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पब्चाननः ॥ २८ ॥ 1 बिह्नणः बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति १ कुमुदव च्छुभ्रा पक्षे, कुमुदो नाम कपिः शोभते यत्र. २ दिगन्तरे पक्षे - समुद्रमुल्लङ्घय लङ्कादेशे, ३ काव्यविशेषः ; पक्षे,सेतुबन्धः ४ द्रुपदपुत्री ५ यथा 'रावणः सीतां जहार' इति वाक्ये 'रावणः' इति पदं बिन्दुद्वन्द्व (विसर्ग) युक्तं कर्तृ, 'सीता' इति शिरोबिन्दु (अनुस्वार) युक्तं कर्म एवमेव कर्तृकर्मपदे सर्वत्र भगवत इति निश्चयवन्तो जनाः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy