________________
संकीर्णप्रकरणम्
३९१
षण्णामात्मनि युक्तानामिन्द्रियाणां प्रमाथिनाम् । यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ ५६९ ॥ वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणंक स्तस्य कुर्याद्वचनं प्रमाणम् ॥ ५७० ॥ सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः । अन्योऽन्यबन्धनावेतौ विनान्योऽन्यं न सिध्यतः ॥ ५७१ ॥ वैराग्ये संचरत्येको नीतौ भ्रमति चापरः । शृङ्गारे रमते कविद्भुवि भेदाः परस्परम् ॥ ५७२ ॥ हृदि विद्ध इवात्यर्थं यथा संतप्यते जनः । पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत् ॥ ९७३ ॥ विद्वद्भिः सुहृदामत्र चिह्नरे - र्विसंशयम् । परीक्षाकरणं प्रोक्तं होमाग्नेरिव भूतले ॥५७४ ॥ संतोषस्त्रिषु कर्तव्यो स्वदारे भोजने । त्रिषु चैव न कर्तव्योऽध्येन तपदानयोः || ५७५ || प्रसारितकरे मित्रे जगदुद्द्योतकारिणि । किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥ ५७६ ॥ यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम् । स तत्र लघुतां याति यदि शक्रसमो भवेत् ॥५७७॥ लब्धव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः । अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति ॥ ५७८ ॥ ये च मूढतमा लोके ये च बुद्धेः परं गताः । त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः || ५७९ ॥ वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदाराः ॥ ५८० ॥ यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ५८१ ॥ प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे । गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥ ५८२ ॥ प्राणत्यागे समुत्पन्ने यदा स्यान्मित्रदर्शनम् । तद्वाभ्यां सुखदं पश्चाज्जीवतोऽपि मृतस्य च ॥ ५८३ ॥ सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् । सद्विद्यो ह्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां बलैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ ५८४ ॥ विरहोऽपि संगमः खलु परस्परं संगतं मनो येषाम् । यदि हृदयं तु विघटितं समागमोऽपि विरहं विशेषयति ॥ ५८५ ॥ प्रणयमधुराः प्रेमोद्गाढा रसादलसास्तथा भणितिमधुरा मुग्धप्रायाः प्रकाशितसंमदाः । प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि किमपि स्वरालापा हरन्ति मृगीदृशाम् ॥ ५८६ ॥ शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ५८७ ॥ यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूर्च्छितः कटुकान्याह
विघ्नविहता विरमन्ति मध्याः । विन्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥ ५४८ ॥ शक्याशक्यमविज्ञाय यस्त्वसाध्ये प्रवर्तते । स केवलमवाप्नोति निजजीवितसंक्षयम् ॥ ५४९ ॥ प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रे पतितः प्रतिबुध्यते ॥ ५५० ॥ विप्रो वृक्षस्तस्य मूलं च संध्या वेदः शाखा धर्मकर्मादि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥५५१ ॥ शक्ष्यामि कर्तुमिदमल्पमयत्न | साध्यमत्रादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्तमनसः परितापदुःखमापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥ ५५२ ॥ विश्राम्यन्ति महात्मानो यत्र कल्पतराविव । स श्लाघ्यं जीवति श्रीमान्सत्संभोगफलाः श्रियः ॥ ५५३ ॥ संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बुसिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ ५५४ ॥ प्रविष्टः सर्वभूतानि यथा चरति मारुतः । चारेणैवं चरेद्राजा स्मृतं तन्मारुतं व्रतम् ॥ ५५५ ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ५५६ ॥ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयो शैघ्यमनुगच्छन्ति योषितः ॥ ५५७ ॥ व्यञ्जनं हन्ति वै पूर्व चैव पयोधरौ । रतिरिष्टांस्तथा लोकान्हन्याच्च पितरं रजः ॥ ५५८ ॥ प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः । मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ ५५९ ॥ सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते । वाङ्मात्रेणापि साहायं मित्रादन्यो न संदधे ॥ ५६० ॥ शठस्तु समयं प्राप्य नोपकारं हि मन्यते । वरं तमुपकर्तारं दोषदृष्ट्या च दूषयेत् ॥ ५६१ ॥ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता' विनश्यति ॥ ५६२ ॥ प्रयाति शमनं यस्य तेजस्तेजस्वितेजसा । वृथाजातेन किं तेन मातुर्यौवनहारिणा ॥ ५६३ ॥ साचैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करा शाम्यति कोsर्थः पटोलेन ॥ ५६४ ॥ विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ॥ ५६५ ॥ सामवादाः सकोपस्य शत्रोः प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५६६ ॥ विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्महीनो हि भोक्तम् । मुनिहितमपि चार्थे दैवतै रक्ष्यमाणं पुरुष इह महात्मा प्रामुते नित्ययुक्तः ॥ ५६७ ॥ योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थे शक्तिमहापयित्वा । क्षिप्रं यशस्तं समुपैति सन्तम ं प्रसन्ना हि सुखाय सन्तः ॥ ५६८ ॥