SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ संकीर्णप्रकरणम् । हरिणशिशुरेवं विलपति ॥ ६८ ॥ लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव मुधा षडङ्घ्रिः ॥ ६९ ॥ बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ ७० ॥ विस्तीर्णाध्यवसायसाध्यमहतां स्निग्धप्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छादारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ७१ ॥ लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् क्षालयन्नपि वृक्षान्नदीवेगो निकृन्तति ॥ ७२ ॥ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीया - द्व्रतमेतद्धि वारुणम् ॥ ७३ ॥ लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले के कज्जल कालिमा नयनयोस्ताम्बूलरागोदयः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ७४ ॥ लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गो यजनसमता दुःखहानिर्विलासः । धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिनां संभवन्ति ॥ ७५ ॥ पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली - कपालीमादाय न्यायगर्भे द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् । द्वारं द्वारं प्रविष्टो दरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ७६ ॥ अदेशकालज्ञमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः । योऽत्रात्रवीत्कारणवर्जितं वचो न तद्वचः स्याद्विषमेव तद्वचः ॥ ७७ ॥ अदृष्टपूर्वानादाय भावानपरिशङ्कितान् । इष्टानि - ष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ७८ ॥ सत्क्षेत्रप्रति पादितः प्रियवचोबद्धालवालावलिर्निर्देषेण मनः प्रसादपयसा निष्पन्न सेकक्रियः । दातुस्तत्तदभीप्सितं किल फलन्कालेऽतिचालोऽप्यसौ राजन् दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥७९॥ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ८० ॥ अत्यु न्नतिं प्राप्य नरः प्रावारः कीटको यथा । स विनश्यत्य - संदेहमिहैवमुशना नृप ॥ ८१ ॥ क्षेत्रग्रामवनाद्रिपत्तनपुरीद्वीपच मामण्डलप्रत्याशाघनसूत्रबद्धमनसां लब्धादिकं ध्यायताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥ ८२ ॥ अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ८३ ॥ अत्युत्सेकेन सहसा साहसा ध्यवसायिनाम् । श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ ८४ ॥ ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं जीवः कथं । ३७९ कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ८५ ॥ अत्यादरपरो विद्वानीहमानः स्थिरां श्रियम् । अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ ८६ ॥ अत्यम्बुपानः द्विषमाशनाच्च दिवाशयाज्जागरणाच्च रात्रौ । संरोधनान्मूत्रपुरीषयोश्च षड्डिः प्रकारैः प्रभवन्ति रोगाः ॥८७॥ आश्रिताश्चैव लोकस्य विवृद्धिं यान्ति विद्विषः । विवृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजाः ॥ ८८ ॥ अत्यन्तचञ्चलस्येह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ८९ ॥ अतुष्टिदानं कृतपूर्वनाशनममाननं दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ९० ॥ दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ९१ ॥ अतीव गुणसंपन्नो न जातु विनयान्वितः । सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥ ९२ ॥ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्कालनिर्मितान्बुद्धा न संज्ञां हातुमर्हसि ॥ ९३ ॥ धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः । तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥९४॥ अतिवादांस्तितिक्षेत नावमन्येत कंचन । क्रोध्यमानः प्रियं ब्रूयादा कुष्टः कुशलं वदेत् ॥ ९५ ॥ अतिक्लेशेन येऽर्थः स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ९६ ॥ निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता । कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ ९७ ॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ९८ ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ ९९ ॥ मिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥ १०० ॥ धनजन यौवन गर्ने हरति निमेषात्कालः सर्वम् । मायामयत्यज्यते निर्धनो जनः ॥ १०१ ॥ अचोद्यमानानि यथा अजाखरखुरोत्सर्गमार्जनी रेणुवज्जनैः । दीपखट्टापच्छायेव पुष्पाणि च फलानि च । खं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १०२ ॥ नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥१०३॥ अधं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं तत्सतामन्नं विधीयते ॥ १०४ ॥ अभ्याधानेन यज्ञेन काषायेण जटाजिनैः । लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥१०५॥ नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ १०६ ॥ अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् । १ अप्रियवचनानि. २ हुतम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy