________________
शान्तरस निर्देशः
चरतां नराणां श्रियो न किंचिद्विपदो न किंचित् ॥ १६७ ॥ हरिष्यमाणो बहुधा परस्वं करिष्यमाणः सुतसंपदादि । धरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवैति कोऽपि ॥ १६८ ॥ उत्तुङ्गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि । क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि ॥ १६९ ॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवन - मुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ १७० ॥ क्षिपसि शुकं वृषदंशकरदने मृगमप - यसि मृगादनवदने । वितरसि तुरगं महिषविषाणे विदधचेतो भोगविताने ॥ १७१ ॥ नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याधिव्यालग्रस्तं लोकं शोकहतं च समस्तम् ॥ १७२ ॥ अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः । न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते ं शोकः ॥१७३॥ चेतोहरा युवतयः सुहृदो - ऽनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः । गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः संमीलने नयनयोर्न हि किंचि - दस्ति ॥ १७४ ॥ मित्रं कलत्रमितरः परिवारलोको भोगेकसाधनमिमाः किल संपदो नः । एकः क्षणः स तु भविष्यति यत्र भूयो नायं न यूयमितरे न वयं न चैते ॥ १७५ ॥ अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः । इति कृतगुणगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किंचित् ॥ १७६ ॥ वयं येभ्यो जाताश्चिरतरगता एव खलु ते समं यैः संवृद्धाः स्मरणपदवीं तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिवसमासन्न - पतना गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ १७७ ॥ यदस्माभिर्दृष्टं क्षणिकमभवत्स्वनमिव तत्कियन्तो भावाः स्युः स्मरणविषयादप्यवगताः । अहो पश्यन्पश्यन्स्वजनमखिलं यान्तमनिशं हतत्रीडं चेतस्तदपि न भवेत्सङ्गरहितम् ॥ १७८ ॥ अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह परितापस्य विषयः । क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केsपि स्थातारः सुरगिरिपयोधिप्रभृतयः ॥ १७९ ॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः। शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुतः प्राणिनाम् ॥ १८० ॥ रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राणतमासमागमसुखं नैवाधिकं प्रीतये। किं तूह्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुरच्छायाचश्ञ्चलमा कलय्य सकलं सन्तो वनान्तं गताः ॥ १८१ ॥ भूत्वा कल्पशतायुषोऽण्डजभुवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो महीजलधयो नष्टाः
३७३
पराः कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहो बन्धोः फेनसमे गते वपुषि यत्पश्चात्मके पश्चताम् ॥ १८२ ॥ आक्रान्तं मरणेन जन्म जरया यात्युल्बणं यौवनं संतोषो धनलिप्सया शेमसुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विपत्तयोऽप्युपहता ग्रस्तं न किं केन वा ॥ १८३ ॥ आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः । जातं जातमवश्यमाशु विवैशं मृत्युः करोत्यात्मसात्तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ १८४ ॥ भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः क्रियास्व स्थिरा । तत्संसारमसारमेव निखिलं बुद्धा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ १८५ ॥ भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्य - समाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ९८६ ॥ साक्षात्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ताः सत्पुत्राः सन्ति मित्राण्यपि विषमविपत्संविभागी कुटुम्बः । एतत्सर्व हि तावत्सुकृतविलसितं दृश्यमानं मनोज्ञं यचैतत्क्षिप्रनाशप्रणयि बत मनाङ् म्लायते तेन चेतः ॥ १८७ ॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीरर्थाः संकल्पकल्पा धेनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठा श्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ १८८ ॥ कालचरितम्
मातुलो यस्य गोविन्दः पिता यस्य धनंजयः । सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः ॥ १८९ ॥ पुरंदरसहस्राणि चक्रवर्तिशतानि च । निर्वापिता
इव वायुना ॥ १९० ॥ अथैव हसितं गीतं पठितं यैः शरीरिभिः। अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥ १९९॥ म्रियमाणं मृतं बन्धुं शोचन्ति परिदेविनः । आत्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ १९२ ॥ ब्रह्मा विष्णुदिने याति विष्णु रुद्रस्य वासरे । ईश्वरस्य तथा सोऽपि कः कालं लङ्घितुं क्षमः ॥ ९९३ ॥ अप्सु प्लवन्ते पाषाणा मानुषा नन्ति राक्षसान् । कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १९४ ॥ अशनं मे
१ उच्छ्रितम् २ शान्तिसुखम् ३ विलासैः ४ विपत्तयः ५ पराधीनम्. ६ कालः ७ आत्माधीनम् ८ स्वतन्त्रेण ९ तुङ्गा उच्चा ये तरङ्गा ऊर्मयस्तेषां भङ्गस्तद्वच्चपलाः १० अल्पानि . ११ मृदुलेन१२ संकल्प तुल्याः १३ वर्षाकालविद्युद्विलासाः. अतिचञ्चला इत्यर्थः. १४ कान्ताभिः १५ तरन्ति १६ भोजनम् .