________________
असतीचरित्रम्, वेश्यागर्हणम्, अष्टनायिकाः
पान्थागमः । निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे धैनरसस्य पारं व्रज ॥ ८१ ॥ वाणिज्येन गतः स मे गृहपतिर्वार्तापि न श्रूयते प्रातस्तजननी प्रसूततनया जामातृगेहं गता । बालाहं नवयौवना निशि कथं स्थातव्यमस्मिन्गृहे सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यताम् ॥ ८२ ॥ रे रे पान्थ कुतो भवान्नगरतो वार्ता न चापि श्रुता बढं ब्रूहि युवा पयोद - समये हित्वा प्रियां जीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते ॥ ८३ ॥ शून्यं वेश्म चिरायितो गृहपतिर्जाताधुना शर्वरी स्थातुं नोचितमत्र गच्छ निभृतं लोकैरँनालक्षितः । इत्थं लोलदृशा ह्यसावभिहितो दासीमुखे - नाध्वगः स्थित्वा किंचिदिव क्क यामि रजनी प्राप्तेत्युदीर्य स्थितः॥ ८४ ॥ स्मर्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि त्वया स्यादेवं यदि नाथ दास्यति विधिजतिस्मरत्वं मम । एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कुतः प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ॥ ८५ ॥ भ्रातः पान्थ पथि त्वया न पथिकः कश्चित्समासादितो बाले नैकशतानि कीदृश इति प्रख्यायतां वल्लभः । यं दृष्ट्वा प्रमदाजनस्य भवतः स्फारे मुदा लोचने स ज्ञेयो दयितो ममेति पथिकायावेद्य मोहं गता ॥ ८६ ॥ भो पान्थ त्वरितोऽसि तिष्ठ निमिषं किंचिद्वदामो वयं मार्गोऽयं पुरतो द्विधा खलु भवेद्ब्रूमेन नो गम्यताम् । तत्रास्ते सहकारकोमलतरोर्मूले प्रपापालिका तस्या लोचनेवागुरानिपतितो न पुनर्यास्यसि ॥ ८७ ॥ नाथो मे विपणिं गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह ' पुष्पिणीति गुरवो याता गृहाभ्यन्तरम् । शय्यामात्र सहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नगमलालनीय रजैनीं लक्ष्मीपते रक्ष माम् ॥ ८८ ॥
वेश्यागर्हणम्
वेश्यासौ मदनज्वाला 'रूपेन्धनसमेधिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ १ ॥ अयं च सुरतज्वाला - कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते यौवनानि धनानि च ॥२॥ इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । निष्फलत्व
१ उदकस्य. २ वाणिज्यार्थं परदेशं गतः ३ भर्ता. ४ सत्यम् ५ वर्षाकाले ६ चिरकालं दूरं गतः ७ अदृष्टः ८ उक्त्वा. ९ गोष्ठी प्रसङ्गेन. १० वामभागेन. ११ लोचनमेव वागुरा मृगबन्धिनी. जालमित्यर्थः १२ पण्यवीथिका १३ रजस्वला. १४ आगमेन वेदेन लालनीयः स्तुत्यः पक्षे, - आगमनेन लालनीयः १५ रजनीं व्याप्येत्यर्थः १६ वाराङ्गना. १७ रूपमेवेन्धनं काष्ठं तेन सम्यक्प्रदीप्ता.
३५५
मलं यान्ति वेश्याविहगभक्षिताः ॥ ३ ॥ धनाशा कैर्तवस्नेहो वितथैश्चित्ततोषणम् । एकमप्यस्ति नात्मासु कथं वेश्यासमा वयम् ॥ ४ ॥ कष्टं जीवति गणिका गणकोऽपि च राजसेवको वैद्यः । दिवसे दिवसे मरणं परस्य यच्चित्तरञ्जनं वृत्तिः ॥ ५ ॥ न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति शालयो न वेशजाताः शुचयस्तथाङ्गनाः ॥ ६ ॥ हारहीरकहिरण्यभूषणैस्तोषमेति गणिका धैनैषिणी । प्रेमकोमलकटाक्षवीक्षितैरेव जीवति कुलाङ्गनाजनः ॥७॥ एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः रमेशानघटिका इव वर्जनीयाः ॥८॥ जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यँच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ९ ॥ केशः कुन्दमिषादिवोपहसति द्रव्यैर्विहीनाञ्जनान् यूनां ग्रन्थिधनं विलोकितुमिवोग्रीवस्तनस्तिष्ठति । प्रेमच्छेदकृपाणवल्लिसुषमां रोमालिरालम्बते यस्याः सा कथमस्तु चेतसि चमत्काराय वाराङ्गना ॥ १० ॥ वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तथैवे - तरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वे भज ॥ ११ ॥
अष्टनायिकाः स्वाधीनपतिका
यदपि रतिमहोत्सवे नकारो यदपि करेण च नीविधारणा नि । प्रियसखि पतिरेष पार्श्वदेशं तदपि न मुश्चति तत्किमाचरामि ॥ १ ॥ मा गर्वमुद्वह कपोलतले चकास्ति कान्त स्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ २ ॥ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः पतिर्नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःखितम् ॥ ३ ॥ श्वश्रूः पश्यति नैव पश्यति यदि भ्रूभङ्गवक्रेक्षणा मर्मच्छेदपटु प्रतिक्षणमसौ ब्रूते ननान्दा वचः । अन्यासामपि किं ब्रवीमि चरितं स्मृत्वा मनो वेपते कान्तः स्निग्धशा १ कपटस्नेहः २ असत्यगोष्ठीभिः ३ धनेच्छावती. ४ श्मशा नस्थिता घटिका: घटयो घटा इति यावत् एता यथा अस्पृश्यास्तथैव ता वर्जनीया इति भावः ५ जन्मनान्धाय. ६ ग्राम्याय. ७ अर्पयन्तीषु. ८ लक्ष्मीलेशाशया. ९ गणिकासु.
•