________________
३४४.
सुभाषितरत्नभाण्डागारम्
हंसः
तमुपगतं पद्मे पद्म निवेशितमाननं प्रतिपुट किनीपत्र - च्छायां मुहुर्मुहुरासितम् । मुहुरुपगतैरत्रैः कोष्णीकृता जलवीचयो जलदमलिनां हंसेनाशां विलोक्य पिपासता ॥ १११ ॥
[ ६ प्रकरणम्
नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ १८ ॥ पतन्ति नास्मिन्विशदाः पतत्रिणो घृतेन्द्रचापा न पयोदपङ्कयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ १९ ॥ विपाण्डुभिम्लानतया पयोधरैश्चयुताचिराभा गुणहेमदामभिः । इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥ २० ॥ विहाय वाञ्छामुदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥ २१ ॥ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवास्यतोत्पलम् ॥ २२ ॥ विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्युतयूथपङ्कयः । असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ २३ ॥ जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी । तं समग्रां समितिर्गवामसावुपैति मत्रैरिव संहिताहुतिः ॥ २४॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीत॑निःखने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥ २५ ॥ असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन्कलभः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ २६ ॥ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ २७ ॥ मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कमलस्य बिभ्रती । शुकावलिर्व्यक्तशिरीष कोमला धनुः श्रियं गोत्रभिदो - ऽनुगच्छति ॥ २८ ॥ ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपरथाप ॥ २९ ॥ रथावयवायुधः स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव । शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ॥ ३० ॥ जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः । जलजराजिषु नैद्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ ३१ ॥ समय एव करोति बलाबलं प्रणिगदन्त इंतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयूरमयूरमणीयताम् ॥ ३२ ॥ तनुरुहाणि पुरोविजितध्वनेर्धवलपक्षविहङ्गमकूजितैः । जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ॥ ३३ ॥ अनुवनं वनराजि - वधूमुखे बहलरा गजवाधरचारुणी । विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ३४ ॥ कनकभङ्गपिशङ्गदुलैर्दधे सरजसारुण केसरचारुभिः । प्रियविमानितमानवतीरुषां निरसनै रसनैरवृथार्थता ॥ ३५ ॥ मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः । धृतनवातपमुत्सुकतामतो
शरद्वर्णनम्
अहो बाणस्य संधानं शरदि स्मरभूपतेः । अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः ॥ १ ॥ अपीतक्षीबेकाद - म्बमसंसृष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥ २ ॥ अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ ३ ॥
शरत्समयस्वभावाख्यानम्
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगम - सव्रीडा जघनानीव योषितः ॥ ४ ॥ एकेन चुलुकेनाब्धिर्निपीतः कुम्भजेन यत् । तस्योदयेऽन्तः कालुष्यं त्यजन्त्यापो भयादिव ॥ ५ ॥ पाथोदजालजटिलं मलिनं शरदङ्गना । अम्बरं धावयामास चन्द्रिकाचयवारिभिः ॥ ६ ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् । प्रासादान्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ ७ ॥ नमिताः फलभारेण नमिताः शालमञ्जरीः । केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ ८ ॥ हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमलाः कुमुदानीव तारकाः शरदागमे ॥ ९ ॥ राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ॥ १० ॥ काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि । नवनीतनिभश्चन्द्रः शरदि चक्रप्रभा ज्योत्स्ना ॥ ११ ॥ द्वयमिदमत्यन्तसमं नीचे प्रभविष्णुता शरच्चेयम् । क्षेत्रेभ्यः प्राप्य फलं खलेषु निक्षिप्यते यस्याम् ॥ १२ ॥ अथ प्रसन्नेन्दुमुखी सिताम्बरा समाययावुत्पलपत्रलोचना । सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः॥ १३ ॥ समुल्लसत्पङ्कजलोचनेन विनोदयन्ती तरुणानशेषान् । शुद्धाम्बरा गुप्तपयोधरश्रीः शरन्नवोढेव समाजगाम ॥ १४ ॥ पयोदकेशेषु विकृष्य रोषान्निष्कास्य सा कोकनदायताक्षी । वर्षावधूं स्वां श्रियमुन्नयन्ती प्रौढा सपत्नीव शरच्चकाशे ॥ १५ ॥ चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता । कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥ १६ ॥ ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रमोदयन्ती सकलङ्कमिन्दुं तापं खेरभ्यधिकं चकार ॥ १७ ॥' उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कता महीम् ।
|
१ मत्तम् २ आकाराम्; पक्षे, - वस्त्रम्.