________________
प्रियचाटूक्तयः
तवाननं सुन्दरि फुलपङ्कजं स्फुटं जपापुष्पमसौ तवाधरः । विनिद्रपद्मं तव लोचनद्वयं तवाङ्गमन्यत्किल पुष्पसंचयः ॥ ३९ ॥ प्रिये सदा पूर्णतरं मनोहरं ते निष्कलङ्कं मुखचन्द्र - मण्डलम् । विलोक्य सव्रीडतया निशापतिर्गतः प्रतप्तो जलधे र्जलान्तरम् ॥ ४० ॥ त्वद्वर्तुलस्थूलसुवर्णकान्ति रम्यस्तन - श्रीफलयुग्ममेतत् । दृष्ट्वा वने श्रीफलमाकुलं किं लज्जाभिरालम्बितमेव वृक्षे ॥ ४१ ॥ जघान बाणैर्दशभिर्दशास्यशिरांसि सीताहरणे स रामः । त्वदङ्गसङ्गाय सदानुरक्ते प्रयातु मे मस्तकमेकमेव ॥ ४२ ॥ शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ ४३ ॥ अनधिगतमनोरथस्य पूर्व शतगुणिलेव गता मम त्रियामा । यदि तु तव समागमे तथैव प्रसरति सुभ्रु ततः कृती भवेयम् ॥ ४४ ॥ दलितकुचनखाङ्कमङ्कपालिं रचय ममाङ्कमुपेत्य पीवरोरु । अनुहर हरिणाक्षि शंकराङ्कस्थित हिमशैलसुता - विलासलक्ष्मीम् ॥ ४५ ॥ कुमुदकमलनीलनीरजा लिर्ललित - विलासजुषो शोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ॥ ४६ ॥ नारब्धं कुचपरिरम्भणेषु वाम्यं वैमुख्यं किमपि न चुम्बने कदाचित् । किं नीवीगतमबले रुणत्सि पाणिं विक्रीते करिणि किमङ्कुशे विवादः ॥ ४७ ॥ दासे कृतागसि भवेदुचितः प्रभूणां पादप्रहार इति मानिनि नास्मि दूये । उद्यत्कठोरपुलकाङ्कितकण्टकाद्यैर्यद्भिद्यते तव पदं ननु सा व्यथा मे ॥ ४८ ॥ बाले तवाधरसुधारसपानकाले चेतो मदीयमभिवाञ्छति शेर्षभावम् । आलिङ्गने तव विरोचनपौत्रभावमाखण्डल - त्वमखिलाङ्गनिरीक्षणे ते ॥ ४९ ॥ एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् । किं वा करिष्यति भवद्वद्नारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत् ॥ ५० ॥ कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चैर्दन्तक्षतं मम समर्पय चुम्बनं च ॥ ५१ ॥ म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकले - न्द्रियमोहनानि । एतानि ते सुवचनानि सरोरुहाक्षि कर्णामृतानि मनसश्च रसायनानि ॥ ५२ ॥ मौलिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकाञ्जना - भाम् । दोषाविर्तैः क्वचन मेलॅनतो गुणत्वं वक्तुर्गुणो हि वचसि भ्रमविप्रलम्भौ ॥ ५३ ॥ पादास्त एव शशिनः
१. अस्मीत्यहमर्थे . २ शेषत्वम्. जिह्वासहस्रवत्त्वात् ३ बाणासुरत्वम्, हस्तसहस्रवत्त्वात् ४ इन्द्रत्वम् चक्षुः सहस्रत्वात् ५ मलिनत्वम्. ६ प्रामुतः ७ मिथो मिलनात् ८ भ्रान्तिप्रतारणे. ४० सु. र. भां.
३१३
सुखयन्ति गात्रं बाणास्त एव मदनस्य ममानुकूलाः । संरम्भरूक्षमिव सुन्दरि यद्यदासीत्त्वत्संगमेन मम तत्तदिवानुनीतम् ॥५४॥ पद्मातपत्ररसि के सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् । कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम् ॥ ५५ ॥ त्वद्वक्त्रसाम्यमयमम्बुजकोश मुद्रा भङ्गात्ततसुषममित्रैकरोपकुया । लब्ध्वापि पर्वणि विधुः क्रमहीयमानं शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ५६ ॥ मृदुलकनककान्ति श्वाससौरभ्यरम्यं वदनकमलमेतन्नेत्रमत्तद्विरेफम् । तव किमु सुसमीक्ष्य व्रीडया पद्मवृन्दं सरसि सलिलपूर्ण मर्तुकामं विवेश ॥ ५७ ॥ यः प्रागासीदभिनववयोविभ्रमावाप्तजन्मा चित्तोन्माथी विगतविषयोपप्लवानन्दसान्द्रः । वृत्तीरन्तस्तिरयति तवाश्लेषजन्मा स कोऽपि प्रौढप्रेमा नव इव पुनर्मान्मथो मे विकारः ॥ ५८ ॥ गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । एकाग्रां यद्दधति भगवत्युष्णमानौ च भक्तिं तत्प्रापुस्ते सुतनु वदनौपम्यमम्भोरुहाणि ॥ ५९ ॥ उन्मेषं यो मम न सहते जातिवैरी निशायामिन्दोरिन्दीवरदलहशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्त्रकान्त्येति हर्षाल मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥ ६० ॥ हस्तस्वेदस्नपित इव यश्चन्दनक्षोदवृन्दैरालिप्तोऽलंकृतपरिसरः फुलहारहारैः । आराधीत्थं तव नवकुरङ्गाक्षि वक्षोजशंभुः साक्षात्कारं तदपि न दिशत्येष किं वा करोमि ॥ ६१ ॥ विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारचैतन्यं भ्रमयति च संमीलयति च ॥ ६२ ॥ स्मितज्योत्स्नाभिस्ते धवलयति विश्वं शशिमुखि दृशस्ते पीयूषद्रवमिव विमुञ्चन्ति परितः । वपुस्ते लावण्यं किरति मधुरं दिक्षु तदिदं कुतस्ते पारुष्यं सुतनु हृदयेनाद्य गुणितम् ॥ ६३ ॥ स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे । सुलभे को जातः शशिमुखि यमालिङ्गसि बलात्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ ६४ ॥ पुराभूदस्माकं प्रथममँविभिन्ना तनुरियं ततो नु त्वं प्रेयान् वयमपि हताशाः प्रियतमाः । इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं हतानां प्राणानां कुँलिशकठिनानां फलमिदम् ॥ ६५ ॥ दृशौ तव मदालसे मदनमिन्दुमत्यान्वितं गतिर्जनमनोरमा विधुतरम्भ
1
१ कुड्मलः ; पक्षे, भाण्डारगृहम् २ मुकुलीभावः ; पक्षे, मुद्रणम् ३ गृहीता. ४ शोभा ५ सूर्यकिरणाः; पक्षे, सुहृत्पाणयः ६ एका. ७ वज्रवत्कठोराणाम्