________________
नायक।तिथ्यवर्णनम्, नायकस्य नायिकां प्रति प्रश्नः, प्रणयकलहे नायिकानुनयः
विकासि वेल्लनम् । विसारि रोमाञ्चितकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥ ३ ॥ कलय वलयं धम्मिल्लेऽस्मि - न्निवेशय मल्लिकां रचय सिचयं मुक्ताहारं विभूषय सत्वरम् । मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥ ४ ॥
नायकातिथ्यवर्णनम्
आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लक्ष्यतां गेहिन्या परितोषबाष्पक लिलामासज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलं लोलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभारा - लग्नं रजः ॥ ॥ बाला चन्दनमालिका किसलयग्रन्थीनधःकुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने । आक्रदात्सुहृदो वनागुरुजनं नासाग्रसङ्गादसून्कान्तं स्त्रीवधपातकात्स्मरमसत्कीर्तेः परावर्तयत् ॥२॥ किंचित्कम्पितपाणिकङ्कणखैः पृष्टं ननु स्वागतं व्रीडानम्रमुखाब्जया चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि स्वामिन्किं न तवातिथेः समुचितं सख्यानयानुष्ठितम् ॥ ३ ॥ दीर्घा वन्दनमालिका विरचिता दृष्टयैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः स्वेदमुचा पयोधर भरेणार्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ ४ ॥
नायकस्य नायिकां प्रति प्रश्नः
कृशा केनासि त्वं प्रकृतिरियमङ्गस्य ननु मे मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया । स्मरस्यस्मान्कच्चिन्नहि नहि नहीत्येवमवदत्स्मरोत्कम्पं बाला मम हृदि निपत्य प्ररुदिता ॥ १ ॥ कृशासीत्यालीना मलिनवसनासीत्यवनता चिराट्टष्ठासीति स्तनकलशकम्पं प्ररुदिता । परिष्वक्ता यावत्प्रणयपदवीं कामपि गता ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ २ ॥ अङ्गानामतितानवं कुत इदं कस्मादकस्मादये मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥ ३ ॥
प्रणयकलहे नायिकानुनयः अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम् । कठिनं खलु चेतः शिरीषस्येव बन्धनम् ॥ १ ॥ किं त्वां भणामि विच्छेददारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परिरम्भणम् ॥ २ ॥ मयि ते पादपतिते किंकरत्वमुपागते प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति ॥ ३ ॥ दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम् । तन्मे
।
१ कृशत्वम्. २ एतन्नामकवृक्षः प्रसिद्धः. ३९ सु. र. भां.
३०५
दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ ४ ॥ मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये । वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्वत् ॥ ५ ॥ सोढुमलमस्मि नाहं सुन्दरि मन्दागमाद्विलम्बं ते । पञ्चशरास्त्रहतं मां संजीवय चारुगात्र परिरम्भैः ॥ ६ ॥ सकृदिव समर्प्य बाले मम हस्ते मदनधर्मतप्तस्य । अपहरसे कुचकुम्भं तृषितकरा - दमृतकुम्भमिव ॥ ७ ॥ अपराधी नूनमहं प्रसीद रम्भोरु विरम 'संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दा निरपराधः ॥ ८ ॥ त्वामयमाबद्धाञ्जलि दासज़नस्तमिममर्थ - मर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम् ॥ ९ ॥ सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भेम् । विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥ १० ॥ क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ११ ॥ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि सुधा । अयभीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥ १२ ॥ मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखभङ्गापि रसं ददासि मम निम्नगा यथाम्भोधेः ॥ १३ ॥ विराममेवानलयाऽतितोषात्तथापि रोषारुणितेव दृष्टिः । निशापतिः श्लिष्यति पश्चिमाशामये किमाशां विफलीकरोषि ॥ १४ ॥ यदि प्रिये वेत्सि तव प्रभुं मामनन्यसाधारणदासममयोः । तदद्य वक्षो मम पात्रमस्तु स्वयंग्रहा श्लेषमहोत्सवानाम् ॥ १५ ॥ उत्तरङ्गय कुरङ्गलोचने लोचने कमलगर्वमोचने । अस्तु सुन्दरि कलिङ्गनन्दिनीवी चिडम्बरगभीरमम्बरम् ॥ १६ ॥ शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पः । यदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ १७ ॥ त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मयि पश्यसि . त्यजसि मानिनि दासजनं यतः ॥ १८ ॥ विसृज सुन्दर संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १९॥ मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधरं परिबाघमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य कान्ते प्रमृज्य विगतानुशयो भवामि ॥ २० ॥ मुग्धे विधेहि मयि निर्दय - दन्तदेशं दोर्वलिबन्धनि बिडस्तनपीडनानि । चण्डि त्वमेव मुदमञ्च पञ्चबाणचण्डालकाण्डदलनादसवः प्रयान्ति ॥२१॥ मा मा ससाध्वसमपेहि विलोलनेत्रे दासे जने किमिति संभ्रमकातरासि । किं युज्यते बत मया चिरकाङ्क्षितस्य मध्ये वरानि परिरम्भसुखस्य भङ्गः ॥ २२ ॥ किं शीकरैः १ कोपात्. २ कोपम् ३ नष्टानुतापः