________________
३००
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
जालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥ ५० ॥ विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः । मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥ ५१ ॥ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ ५२ ॥ नवचन्द्रिकाकुसुमकीर्णतमः कबरीभृतो मलयजाई - मिव | दहशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ ५३ ॥ प्रथमं कलाभवदथार्धमथो हिमदीधितिमहदभूदुदितः । दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥ ५४ ॥ उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा 1 प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ५५ ॥ अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ५६ ॥ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः । घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ५७ ॥ रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदावपि ताम् । अविलम्बितक्रममहो महतामितरेतरोपकृतिमञ्चरितम् ॥ ५८ ॥ दिवसं भृशोष्णरुचिपा दहृतां रुदती - मिवानवरतालिरुतैः । मुहुरामृशन्मृगंधरोऽग्र करैरुदशिश्वसत्कुमुदिनीवनिताम् ॥ ५९ ॥ प्रतिकामिनीति ददृशुश्च किताः स्मरजन्मधर्मपयसोपचिताम् । सुदृशोऽभिभर्तृशशिरश्मिगलज्जदृशा मपमार्गमोषधिपति स्म करैः । परितो विसर्पि परिजलबिन्दु मिन्दुमणिदारुवधूम् ॥ ६० ॥ अमृतद्रवैर्विदधदतापि भृशं वपुषोऽवतारयति मानविषम् ॥ ६१ ॥ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विससार सान्द्रतर मिन्दुरुचामधिकावभासितदिशां निकरः ॥६२॥ उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि । रजनीकरः किमिव चित्रमहो यदुरागिणां गणमनङ्गलघुम् ॥ ६३ ॥ भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः । अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दु किरणान्मदनः ॥ ६४ ॥ अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवतमसा । उदिते दिशः प्रकटयत्यमुना यदधर्मधानि धनु - राचकृषे ॥ ६५ ॥ युगपद्विकासमुदयाद्गमिते शशिनः शिली - मुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ॥ ६६ ॥ ककुभां मुखानि सहसोज्वलयन्दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ६७ ॥ ख्याता वयं समधुपा मधुकोशवत्यश्चन्द्रः प्रसारितकरो द्विजराज एषः । अस्मत्समागमकृतोऽस्य पुनर्द्वितीयो मा भूत्कलङ्क इति संकुचिता
-
उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् । भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ३१ ॥ एतदुच्छ्रसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् । मुक्तषट्पदविरावमञ्जसा मिद्यते कुमुदमा निबन्धनात् ॥ ३२ ॥ आननानि हरिणीनयनानामद्भुतानि च समीक्ष्य जगत्याम् । लज्जयैव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥ ३३ ॥ व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्बितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ३४ ॥ उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ ३५ ॥ नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥३६ ॥ यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शंभुनेत्र करिचर्म चकासे ॥ ३७ ॥ अन्तिकान्तिकगतेन्दुविसृष्टे जिह्नतां जहति दीधितिजाले । निःसृतस्तिमिरभारनिरोधादुच्छ्रसन्निव रराज दिगन्तः ॥३८॥ लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ ३९ ॥ दीपयन्नथ नमः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयो धेरुन्ममज्ज शनकैस्तुहिनांशुः ॥ ४० ॥ उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः । व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ ४१ ॥ न प्रसादमुचितं गमिता द्यौर्नोद्धतं तिमिरमद्रिवनेभ्यः । दिङ्मुखेषु न च धाम विकीर्णे भूषितैव रजनी हिमभासा ॥ ४२ ॥ श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्त तकरस्य हिमांशोः । उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥ ४३ ॥ प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि । क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ ४४ ॥ शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे । न्यस्तशुक्ल बलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ ४५ ॥ गन्धमुद्धतरजः कणवाही विक्षिपन्विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुदपां नवराजीः ॥ ४६ ॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ४७ ॥ ओजसापि खलु नूनमनूनं नासहायमपयाति जयश्रीः । यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ४८ ॥ कलितमम्बरमा कलयन्करैर्मृदितपङ्कजकोशपयोधरः । विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ॥ ४९ ॥ वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशु
१ कौटिल्य, तिर्यक्त्वं वा २ अतिमन्दगामिनीम्.