________________
वियोगिनो विप्रलापाः
२८१
वोद्घटिता किमत्र कुलिशोद्विग्ना कपाटावली मर्यादैव विलङ्घिता सखि पुनः केयं कलिन्दात्मजा । आक्षिप्ता खलु दृष्टिरेव किमियं व्यालावली वा पुनः प्राणा एव समर्पिताः सखि पुनस्तस्मै किमेषा तनुः ॥ १११ ॥ सव्याजं तिलकालकान्विरलयँलोलाङ्गुलिः संस्पृशन्वारं वारमुदञ्चयन्कुचयुगप्रोदश्चिनीलाञ्चलम् । यद्भ्रूभङ्गतरङ्गिताञ्चितदृशा सावज्ञमालोकितं तद्गर्वावधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥ ११२ ॥ क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येतं सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥ ११३ ॥ हा धिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥ ११४ ॥ स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुद्यूतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ११५ ॥ सा सौन्दर्यनिधिर्विलासभवनं मीनध्वजस्यापि वा कान्तीनामधिदेवताधिकरणं माधुर्यसारस्य वा । तामुद्वीक्ष्य सखे तदादि गतवान्सर्वेन्द्रियाणामहं सार्धं तद्गतमानसेन गलितोत्साहः किलानीशताम् ॥ ११६ ॥ तस्याः किं मुखपङ्कजं स्मितरुचा चन्द्रद्युतेर्निन्दकं किं वा नेत्रयुगं कटाक्षचतुरं किं भूलताविभ्रमम् । किं वा स्निग्धमवेक्षितं मयि पुनर्यान्त्या सखीनां पुरः किं किं संप्रति चिन्तयामि हृदये कामेन लक्ष्यीकृते ॥ ११७ ॥ शीतांशुर्विषसोदरः फणभृतां लीलास्पदं चन्दनं हारः क्षारपयोभवः प्रियसुहृत्पङ्केरुहं भास्वतः । इत्येषां भ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः ॥ ११८ ॥ जाने स्वमकिमिवास्तु वस्तु मदनज्वालाविघाताय यद्वाह्याकारपरिविधौ ममाद्य चुलुकोत्सेक्थं पुरस्तादभूत्प्रत्यूषे परिवेषमण्डलचन्द्रप्रभैरङ्गकैर्दृष्टा काप्यबला बलात्कृतवती सा मन्मथं मिव ज्योत्स्नासपत्नं महः । तस्यान्तर्नखनिस्तुषीकृतशर-मन्मथम् ॥ ११९ ॥ सौमित्रे ननु सेव्यतां तरुतलं चण्डांगुरु जम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं तु भवता धत्ते कुरङ्गं यतः कास प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥ १२० ॥ पादाङ्गुष्ठेन भूमिं किसलयरु चिना सापदेशं लिखन्तीं भूयो -
१ कोमलपल्लवकान्तिना. २ सव्याजम्
॥ ९९ ॥ किं तिष्ठामि किमु व्रजामि किमहं जागर्मि निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यामि दुःख्यामि वा । किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि पक्षे स्थितः प्राप्यानिर्वचनीयमेव कमपि क्रूरं विकारं सखे ॥ १०० ॥ आसीनः शयितः स्थितः प्रचलितः स्वप्नायितो जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा । तां प्रेमाकुल वीक्षितां स्मितमुखीं सत्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्द्रमुग्धलपितां पश्यामि नक्तंदिवम् ॥ १०१ ॥ नीले न्दीवरशङ्कया नयनयोर्बन्धूक बुद्ध्याधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धव - जनव्या मोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥ १०२ ॥ सा मे यद्यपि सुन्दरी भग वतो मामेव चेतोभुवो न स्वप्ने न च जागरे नयनयोः पन्थानमासादिता । तामाकर्ण्य तथापि तादृशदशा वैधुर्यमासेदुषी - मानन्दाद्भुतशोककौतुकभयत्रीडाकुलं मे मनः ॥ १०३ ॥ सा संचारचमत्कृतिर्नयनयोः स भ्रूलताविभ्रमस्तद्विम्बाधरपाटलस्मितयुतस्यास्यस्य सा वैखरी । सेयं चङ्क्रमचातुरी चरणयोः सोऽप्यङ्गहारक्रमो दिष्ट्या तन्मम नेत्रपात्रमखिलं जायेत जीवामि च ॥ १०४ ॥ लीनेवृ प्रतिबिम्बितेव लिखिते - वोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ १०५ ॥ सा विद्याधरकन्यका किमु भुवं पुण्यैः प्रपन्ना नृणां लावण्यामृतसागराद्विमथिता लक्ष्मीः किमन्योत्थिता । आज्ञातं घनसारचन्दनसुंधाज्योत्स्नामृणालादिभिः प्रारब्धा हृदयं मम भ्रमयितुं पौष्पेषवी शाम्बरी ॥ १०६ ॥ हृत्वा पद्मवनद्युतिं प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीव सवितुबिम्बेऽधिकं लक्ष्यते । चत्राहोऽहमिव स्थितः सहचरीं ध्यायन्नलिन्यास्तटे संजाताः सहसा ममैव भुवनस्याप्यन्धकारा दिशः ॥ १०७ ॥ नेत्रे खञ्जनगञ्जने नवसुधाधारानुकारा गिरः पाणिः पद्मसहोदरः कचरुचिः शैवाल जालोपमा वक्रं कार्तिकपौर्णिमापतिसमं हारिद्रहृद्यं वपुस्त्वं यस्मै वलसे विलासिनि हृदा तेनैव तप्तं तपः ॥ १०८ ॥ आस्तां दूरतया तदीयवदनाम्भोजामृतास्वादनं नोदेत्यव मनोरथोऽपि हृदये तत्संगमाशां प्रति । उत्कण्ठाशिथिलीकृताङ्गलतिकं वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्योऽस्म्यहं तावता ॥ १०९ ॥ निद्रे लोचनमुद्रणं विरचय स्वप्न त्वमप्याचर प्राणाभिन्नतमां चिरात्प्रियतमां मचेतसो गोचरम् भ्रातर्बोध दृढानुरोध न तथा कुर्या यथा प्रेयसीप्रौढाश्लेषविघट्टनेन भवतः क्रीडन्ति दुष्कीर्तयः ॥ ११० ॥ लज्जे३६ सु. र. भां.
।