________________
संकीर्णान्योक्तयः
भूपानां भवनेषु किंच विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ॥ ४४ ॥ सर्वोद्वेगकरं मृगादनममुं संत्यज्य हा धिक्त्वया लोकस्या - नपकारिणं गिरिनदीतीराटवीनिर्वृतम् । अनन्तं तृणमेण - शावमदयं व्याध नतामुं वृथा देवो दुर्बलघातकोऽयमिति सा गाथा यथार्थीकृता ॥ ४५ ॥
विषमन्त्री
भेकेने क्वणता सरोषपरुषं यत्कृष्णसर्पानने दातुं कर्णचपेटेमुज्झितभिया हस्तः समुल्लासितः । यच्चाधोमुखमक्षिणी विदधता नागेन तूष्णीं स्थितं तत्सर्वे विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ ४६ ॥
मालाकारः
तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार व्यरचि भवता या तरोरस्य पुष्टिः । सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां धारासारानपि विकिरता विश्वतो वारिदेन ॥ ४७ ॥
कायस्थः
विप्रेभ्यः साधुदानं रिपुजनसुहृदां चोपकारान्कुरु त्वं सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्ये यथार्थम् । श्रोत्रे ते तथ्यमेतत्कथयति सततं लेखनी भाग्यशालिन्नो चेन्नष्टेऽधिकारे मम मुखसदृशं तावकास्यं भवेद्धि ॥ ४८ ॥ कविः
कस्त्वं भोः कविरस्मि तत्किमु सखे क्षीणोऽस्यनाहारतो धिग्देशं गुणिनोऽपि दुर्मतिरियं देशं न मामेव धिक् । पाकार्थी क्षुधितो यदैव विदधे पाकाय बुद्धिं तदा विन्ध्ये नेन्धनमम्बुधौ नं सलिलं नान्नं धरित्रीतले ॥ ४९ ॥
शैलूषः
वंशः प्रांशुरसौ घुणत्रणमयो जीर्णा वैरत्रा इमाः कीलाः कुण्ठतया विशन्ति न महीमाहन्यमाना अपि । आरोहब्यवसायसाहसमिदं शैलूष संत्यज्यतां दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ५१ ॥
कुशीलवाः
मौलिः स्वर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ त्वद्भृत्याः किल कञ्चुकिप्रभृतयो देवेति विज्ञाप्यसे । इत्थं कल्पनया कुशीलव नृपाहंकारदा वृथा नृत्यान्ते भवतो भविष्यति मसीमात्रावशेषं वपुः ॥ ५२ ॥
१ मण्डूकेन. २ निर्भयेन. ३ काष्ठकीटः ४ हस्तिकक्षस्थरज्जुः, गजमभूषा वा.
२४७
बाला
स्रग्दाम भूर्धनि निधेहि गवेधुकानां गुञ्जामयीमुरसि धारय हारयष्टिम् । बाले कलावति चिरं पतितासि पलौ तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ५३ ॥
बालाः
ये शिरसा निहिता अपि न भवन्ति सखे समान - सुखदुःखाः । चिकुरा इव ते बाला एव जरापाण्डु- | परिमलगुणः कोऽपि कस्तूरिकायाः ॥ ६१॥ भावेऽपि ॥ ५० ॥
पल्लीपतिपुत्री एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तात्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्माभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥ ५४ ॥
पान्थः
1
न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ । कस्तत्र भवतः पान्थ कूपाम्बुग्रहणाग्रहः ॥ ५५ ॥ वापी कापि कदापि न श्रुतचरी को वेद कीहक्सरो व्योमाम्भोजवनीव चात्र तटिनी कैर्नाम विज्ञायते । हंहो पान्थ दुरन्तसाहसभरैरत्रागतं चेन्मरौ मण्डूकाकुलपङ्कसंकुलजला देन्धोः केबन्धं पिब ॥ ५६ ॥ कस्तूरिका
अयि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया । अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ५७ ॥ यद्यपि दैवाल्लब्धा कस्तूरीभूमिरत्र भूरितरम् । नेया किमसौ तदपि हि शौचार्थं जानता पुंसा ॥ ५८ ॥ दुर्ललपल्लीपतिपुत्रहस्ते कस्तूरि कस्ते वद दुर्विपाकः । आरभ्य सौरभ्यकथासु मौनं मालिन्यमात्रे वचसोऽवकाशः ॥ ५९ ॥ अयि बत गुरुगर्व मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥ ६० ॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति । यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी को जानीते
दीपः
रक्ष पात्रगतं स्नेहं प्रदीप श्रीविवर्धनम् । प्रयास्यन्तिं विना तेन भस्मत्वं यद्भवद्गुणाः ॥ ६२ ॥ बहिरतिनिर्मलरूपं वहतस्ते दीप दैवतो जगति । अवगतमचिरादान्तरमौज्ज्वल्यं कज्जलद्वारा ॥ ६३ ॥ न मणेरितोऽधिका भा नो मृदुता न प्रकाशसमता वा । अचिरस्थितिरिति दीपो न हि बहुमूल्योऽभवत्प्रायः ॥ ६४ ॥ यां कान्तिं वहसि परां प्रदीप भद्र स्वीयासाविति हृदि मा स्म मन्यथास्त्वम् । सस्नेहे त्वयि निशि भानुनाहितासौ नैवं चेदहनि सति वा गता सा ॥ ६५ ॥ प्रदीप किमु कुप्यसि प्रलयमारुतप्रज्वलप्रभापटलपाटलप्रकटपावकव्यक्तये । त्वमङ्ग किमु कामिनी
१ कूपा. २ जलम् ३ हस्तपादा दिक्षालनार्थम् ४ श्रीः शोभा •