________________
२३६
सुभाषितरत्नभाण्डागारम्
कूर्मः भ्रमति गिरिराट् पृष्ठे गर्जत्युपर्यपि सागरो दहति विततज्वालाजालो जगन्ति विषानलः । स तु विनिहितश्रीबाकाण्डः कटाहकुटोदरे स्वपिति भगवान्कूर्मो निद्राभरालसलोचनः ॥ ४ ॥ पुत्रिण्यः कति नात्र सन्ति भुवनेऽभूवन्कियत्योऽथवा सौभाग्यैकमठी तथादिकमठी स्त्रीषु प्रशंसास्पदम् भग्ने भोगिनि भङ्गुरेषु कैरिषु भ्रष्टोत्सवे दंष्ट्रिण क्षोणीं साहसिकाग्रणीस्तुलयितुं जागर्ति यस्याः सुतः ॥ ५ ॥
।
वृक्षान्योक्तयः
अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् । धन्या महीरुहा येभ्यो निराशा यान्ति नार्थिनः ॥ १ ॥ पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान्वितन्त्रते ॥ २ ॥ प्रेत्ययैः पत्रनिचयैस्तरुयैरेव शोभितः । जहाति जीर्णोस्तानेव किं वा चित्रं कुँजन्मनः ॥ ३॥ छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ ४ ॥ परोपसर्पणानन्तचि. न्तानलशिखाशतैः । अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ५ ॥ मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी । फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ॥ ६ ॥ शाखाशतचितवियतः सन्ति कियन्तो न कानने तरवः । परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ ७ ॥ तीव्रो निदाघसमयो बहुपथिकजनश्च मैौरवः पन्थाः । मार्गस्थित तरुरेकः कियतां संतापमपहरति ॥ ८ ॥ हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवः । हन्त सहन्ते यावत्ता - वद्रुम कुरु परोपकृतिम् ॥ ९ ॥ अध्वन्यध्वनि तरवः पथि पथि पथिकैरुपास्यते छाया । विरलः स कोऽपि विटपी यमध्वगो गृहगतः स्मरति ॥ १० ॥ कश्चिन्नवं पल्लवमा ददाति कश्चित्प्रसूनानि फलानि कश्चित् । परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित् ॥ ११ ॥ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतान्याकर्ण्य श्रुतिमदजाल्लयातिरेकात् । आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्न वनिरुहां कुटुम्बकानि ॥ १२ ॥ भुक्तानि यैस्तव फलानि पंचेलि मानि क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् । ते पक्षिणो जलरयेण विकृष्यमाणं पश्यन्ति पादप भवन्तममी तटस्थाः ॥ १३ ॥ धत्ते भरं कुसुमपत्रफलावलीनां धर्मव्यथां वहति शीतभवां रुजं च । यो देहमर्पयति चान्यमुखस्य हेतोतस्मै वदान्यगुरवे तरवे नमस्ते ॥ १४ ॥ इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशादमी वल्मीकास्ते भुजगकुललीलावसतयः । गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरीपरीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ॥ १५ ॥ विपन्नं
-
१ दिग्गजेषु. २ नूतनैः ३ कुः पृथ्वी तस्या जन्म यस्य; पक्षे, कुत्सितं जन्म यस्य ४ समूह: ५ मरुदेश संबन्धी ६ पक्कानि. ७ दानशौण्डानां गुरवे. ८ व्याप्तम् ९ स्वभावतो महान्तः
[ ५ प्रकरणम्
पद्मिन्या मृतमनिमिषैर्यातमलिभिः खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः । दशां दीनां नीते सरसि विषमग्रीष्मदिवसैः कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ १६ ॥ इयं बाला वही मदुकिसलयं तापविलयं घनच्छायं शालं वनमतिविशालं परिगताः । परं त्वस्याभ्यन्तर्गरललवभस्मीकृतवनं भुजंगं प्रोत्तुङ्गं कथमिव वराकी कलयतु ॥ १७ ॥ यज्जातोऽसि चतुष्पथे घनलसच्छायोऽसि किं छायया संयुक्तः फलितोऽसि किं यदि फलैः पूर्णोऽसि किं संनतः । हे सद्वृक्ष सहस्व संप्रति सखे शाखा शिखाकर्षणक्षोभामोट्टनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ १८ ॥ छायासुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैनिं पीतकुसुमः श्लाघ्यः स एकस्तरुर्यत्राङ्गीकृतसत्त्वसंप्लव भरे भग्नापदोऽन्ये द्रुमाः ॥ १९ ॥ भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः । विश्रान्ताः सुचिरं परं सुमनसः प्रीतिः किमत्रोच्यते त्वं सन्मार्गतरुर्वर्यं च पथिका यामः पुनर्दर्शनम् ॥ २० ॥ पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति । पर्यालोच्य महातरो तव घनच्छायां वयं संश्रितास्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ २१ ॥ मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं मांसला वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव । एकः किंतु मनागयं जनयति स्वान्ते ममाधिज्वरं ज्वाला - लीवलयीभवन्नकरुणो दावानलो घस्मरः ॥ २२ ॥ ये पूर्व परिपालिताः फलभरच्छायादिभिः प्राणिनो विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते सांप्रतम् । एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ २३ ॥ वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता जातोऽसौ सरसप्र कामफलदः सर्वाश्रितोपाश्रयः । नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्तं लब्धावसरोऽपि वृद्धशकुनिर्दूरे स्थितो वीक्षते ॥ २४ ॥ छायाभिः प्रथमं ततस्तु कुसुमैः पश्चात्फलैः स्वादुभिः प्रीणात्येव तरुः पथीति पथिकैः श्रान्तैः सुखं स्थीयते । को जानाति यदत्र कोटरगतः प्रत्यग्रहालाहलज्वालाजालकरालवक्रकुहरः कृष्णः फणी वर्तते ॥ २५ ॥ आमोदैर्मरुतो मृगः किसलयैर्लम्बैस्त्वचा तापसाः पुष्पैः गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया प्राप्तस्त्वं फलैः शकुनयो धर्मार्दिताश्छायया । स्कन्धैद्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे ॥ २६ ॥ रोलम्बे
षट्चरणाः
1
१ सर्पाः; राजपक्षे, पिशुनाः सचिवादयः २ पुष्टाः.